SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोक: २७ ॥२३६।। ॥२३६॥ ब्रह्मदत्तोऽप्ययःसूचीः कृष्ट्वा बुद्धिलकुक्कुटम् । भूयोऽपि सागरश्रेष्ठिकुक्कुटेनाभ्ययोजयत् ॥३१०॥ असूचिकः कुकुटेन तेन बुद्धिलकुक्कुटः । क्षणादभनि निम्नानां छद्मबाह्य कुतो जयः ॥३११॥ हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदानैकसुहृदौ निनाय निलये निजे ।।३१२॥ स्वधामनीव तद्धाम्नि तयोर्निवसतोस्थ । किमप्याख्यद् वरधनोरेत्य बुद्धिलकिङ्करः ॥३१३।। तस्मिन् गते वरधनः कुमारमिदमभ्यधात । यद बुद्धिलेन लक्षाई दित्सितं मेऽद्य पश्य तत् ॥३१४॥ सोऽदर्शयत्ततो हारं निर्मलस्थूलवर्तुलैः । कुर्वाणं मौक्तिकैः शुक्रमण्डलस्य विडम्बनाम् । ३१५॥ हारे बद्धं स्वनामाकं ब्रह्ममूर्लेखमैक्षत । आगाच वाचिकमिव मूर्त वत्सारख्यतापसी ॥३१६॥ अक्षतानि तयोर्मूर्ध्नि क्षिप्त्वाशीर्वादपूर्वकम् । नीत्वान्यतो वरधनुं किश्चिदाख्याय सा ययौ ॥३१७।। तच्चाख्यातुं समारेभे मन्त्रिसूर्ब्रह्ममनवे । प्रतिलेख हारबद्धलेखस्येयमयाचत ॥३१८॥ श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयस्व तत् । को ब्रह्मदत्त इति सा मया पृष्टेदमब्रवीत् ॥३१९॥ अस्ति श्रेष्ठिसुता रत्नवती नामेह पत्तने । रूपान्तरेण कन्यात्वं प्रपन्नेव रतिर्भुवि ॥३२०॥ भ्रातुः सागरदत्तस्य बुद्धिलस्य च तद्दिने । कुक्कुटायोधनेऽपश्यद् ब्रह्मदत्तमिम हि सा ॥३२१॥ ततःप्रभृति ताम्यन्ती कामार्ता सा न शाम्यति । शरणं ब्रह्मदत्तो मे स एवेत्याह चानिशम् ॥३२२॥ स्वयं लिखित्वा चान्येयुलेख हारेण संयुतम् । अर्ग्यतां ब्रह्मदत्तस्येत्युदित्वा सा ममाप्यत् ॥३२३॥ १ हारबद्धममुं लेखं तापसीयमयाचत खं. ॥ Jain Education Inte For Private & Personal use only C ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy