________________
॥२३॥
गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोज्जृम्भा सोदस्थाजातचेतना ।।२९७।। स्वं ज्ञापयित्वा रुदती निवार्य स्म नयामि ताम् । कच्छग्रामे गृहे तातसुहृदो देवशर्मणः ॥२९८।। इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहागमम् । दिष्टया दृष्टोऽधुना साक्षात्पुण्यराशिरिवासि मे ॥२९९।। ततः परं कथं नाथ प्रस्थितोऽसि स्थितोऽसि च । तेनेति पृष्टः स्वं वृत्तं कुमारोऽपि न्यवेदयत् ॥३०॥ अथ कोऽप्येत्य तावूचे ग्रामे दीर्घभटाः पटम् । युष्मत्तुल्यद्विरूपाक्षं दर्शयन्तो वदन्त्यदः ॥३०॥ ईदृग्नरौ किमायातावत्रेत्याकर्ण्य गां मया। दृष्टाविह युवां यद् वां रुचितं कुरुतं हि तत् ॥३०२॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कौशाम्बी प्रापतुस्तौ पुरी क्रमात ॥३०३॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्धिलस्य च । उद्यानेऽपश्यतां लक्षपणं सौ कुकटाहवम् ॥३०४॥ उत्पत्योत्पत्य नखरैः प्राणाकर्षाङकुटैरिव । युयुधाते ताम्रचूडौ चश्चाचञ्चवि चोच्चकैः ॥३०५।। तत्र सागरदत्तस्य जात्यं शक्तं च कुकुटम् । भद्रेभमिव मिश्रेभोऽभाजीद् बुद्धिलकुकुटः ।।३०६।। ततो वरधनुः स्माह कथं जात्योऽपि कुकुटः । भग्नस्ते सागराऽनेन पश्याम्येनं यदीच्छसि ॥३०७|| सागरानुज्ञया सोऽप्यपश्यद् बुद्धिलकुक्कुटम् । तत्पादयोरयःसूचीर्यमदूतीरिवैक्षत ॥३०८॥
लक्षयन् बुद्धिलोऽप्यस्य लक्षार्द्ध छन्नमिष्टवान् । सोऽप्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥३०९।। १यद्धिरू मु. शां.॥
॥२३॥
Jan Education Intel
For Private & Personal Use Only
vww.jainelibrary.org