SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् !!२३४|| Jain Education Inte बद्ध्वा युवां समानेतुं प्रत्याशं साधनानि सः । अस्खलद्गमनान्यर्क महांसीवादिदेश च ॥ २८४ ॥ पलायितो धनुर्मन्त्री जनयित्री तु सा तव । दीर्घेण नरक इव क्षिप्ता मातङ्गपाटके ||२८५ || गण्डोपरिष्टात् पिटकेनेवा वार्त्तया तया । दुःखोपर्युद्भवद्दुःखः काम्पील्यं गतवानहम् || २८६ ॥ छद्म लिकीभूय तत्र मातङ्गपाटके | वेश्म वेश्मानुप्रवेशमस्थां स्पश इवानिशम् ||२८७|| पृच्छ्रयमानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्गया विद्यायाः कल्प एष मे || २८८ || तत्रैवं भ्राम्यता मैत्री मया विश्वासभाजनम् । अजायताऽऽरक्षकस्य मायया किं न साध्यते ||२८९ || अन्येद्युस्तन्मुखेनाम्बामवोचं यत् करोत्यसौ । त्वत्पुत्रमित्रं कौण्डिन्यो महात्रत्यभिवादनम् ||२९० || द्वितीयेऽह्नि स्वयं गत्वा जनन्या बीजपूरकम् । अदां सगुटिकं जग्धेनाऽसंज्ञा तेन साऽभवत् ॥ २९९ ॥ मृतेति तां पुराध्यक्षो गत्वा राज्ञे व्यजिज्ञपत् । राज्ञाऽऽदिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ।। २९२ ।। तत्राऽऽयाता मयोक्तास्ते संस्कारोऽस्याः क्षणेऽत्र चेत् । महाननर्थो वो राज्ञश्चेति जग्मुः स्वधाम ते ।। २९३ || आरक्षं चावदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्या मन्त्रमेकं शवेन तत् ॥ २९४ ॥ आरक्षः प्रतिपेदे तत्तेनैव सहितस्ततः । साथमादाय जननीं श्मशानेऽगां दवीयसि ।। २९५ ।। tator मण्डलादीनि मया निर्माय मायया । पूर्देवीनां बलिं दातुमारक्षः प्रेषितस्ततः ॥ २९६ ॥ १ शश-मु. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक: २७ ॥२३४॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy