SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् द्वितीयः प्रकाश श्लोक: २७ ॥२३२॥ २३२॥ तत्स्नु, पिता राज्ये निषण्णः क्रूरगोत्रिभिः। पर्यस्तोऽशिश्रिय दिमां पल्लीं सबलवाहनः ॥२६२।। भिल्लानुपनमय्यात्र वार्वेग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति स्वं परिग्रहम् ।।२६३॥ जातास्मि चाहं तनया तातस्यात्यन्तवल्लभा। स्वामिन् सम्पदिवोपायांश्चतुरस्तनयाननु ॥२६४॥ स मामुद्यौवनामृचे सर्वे मे द्वेषिणो नृपाः । त्वयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः ॥२६५।। तस्थुषी चक्रवाकीव सरस्तीरे निरन्तरम् । ततः प्रभृति पश्यामि सर्वानेकैकशोऽध्वगान् ॥२६६॥ मनोरथानामगतिः स्वप्नेऽप्यत्यन्तदुर्लभः । आर्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥२६७।। स पल्लीपतिरन्येद्युामघातकृते ययौ। कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसौ ॥२६८।। लुण्ठ्यमाने ततो ग्रामे कुमारस्य सरस्तटे। पादाब्जयोर्वरधनुरेत्य हंस इवापतत् ॥२६९।। कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद च । नवीभवन्ति दुःखानि समाते हीष्टदर्शने ॥२७०।। ततः पीयूषगण्डूपैरिखालापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिमः ॥२७१॥ वटाधस्त्वां तदा मुक्त्वा गतोऽहं नाथ पाथसे । सुधाकुण्ड मिवापश्यं किश्चिदग्रे महासरः ॥२७२।। १ पसमय्यात्र शां. ॥ २ उपायानां श्रीरिवानु चतुर्णा तनुजन्मनाम् ।-शां. खं, ख. ग. च. । श्रीवत् पश्चादुपायानां चतुर्णा तनुजन्मनाम् ।-च. ड. त्रिषष्टिः ९।१।२६५।। ३ सह खं.॥ ४ रुरोद स:-ग, च, ड, त्रिषष्टि० ९।१। २७१ ॥ ५ वटेऽधस्त्वां -मु. त्रिषष्टि० ९।१ । २७३ ॥ Jain Education Inter For Private & Personal Use Only Rajww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy