________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
द्वितीय: प्रकाश: श्लोक: २७ ॥२३०॥
॥२३०॥
अकस्माजायते कोऽयं खे शब्दोऽनन्दवृष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुष्पवत्येवमब्रवीत् ॥२३६।। भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ।।२३७॥ तनिमितं विवाहोपस्करपाणी इमे मुधा । अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा ॥२३८॥ अपसर्प क्षणं तावद् यावत् त्वद्गुणकीर्तनः । लभेऽहमनयोर्भावं त्वयि रागविरागयोः ॥२३९।। रागे रक्तां प्रेरयिष्ये पताका तत् त्वमापतेः । विरागे चलयिष्यामि श्वेतां गच्छेस्तदाऽन्यतः ॥२४॥ ब्रह्मदत्तम्ततोऽवादीमा भैषीर्भीरु नन्वहम् । ब्रह्मसूनुः किमेते मे तुष्टे रुष्टे करिष्यतः ॥२४१।। उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिनः किन्तु मा विरौत्सुनेभश्चराः ॥२४२।। तस्याश्चित्तानुवृत्या तु तत्रैवास्थात् स एकतः। अथ पुष्पवती श्वेतां पताका पर्यचीचलत् ॥२४३।। ततः कुमारस्तां दृष्ट्वा तत्प्रदेशाच्छनैः शनैः। प्रियानुरोधादगमन हि भीस्तादृशां नृणाम् ॥२४४।। आकाशमिव दुर्गाहमरण्यमवगाह्य सः। दिनान्तेऽर्क इवाम्भोधिं प्रापदेकं महासरः ।। २४५।। ततः प्रविश्य तत्रासौ सुरेभ इव मानसे । स्नात्वा स्वच्छन्दमत्यच्छाः सुधा इव पपावपः ॥२४६।। निःसृत्य ब्रह्मसूीरात्तीरमुत्तरपश्चिमम् । लताक्वणदलिस्वानः सौस्नातिकमिवाभ्यगात् ।।२४७।। तत्र तेन द्रुमलताकुञ्ज पुष्पाणि चिन्वती। वनाधिदेवता साक्षादिव काप्यक्षि सुन्दरी ॥२४८।। १ नभ्रवृ शां. खं.॥ २ चाल मु.॥ ३ दुर्गाह-त्रिषष्टिः ९। १। २४६ ।।
Jain Education Inte
For Private & Personal Use Only
|www.jainelibrary.org