________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाशः श्लोकः २७ ॥२२८॥
१२२८॥
एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गजम् । लीलया खेलयामासाऽऽहितुण्डिक इवोरगम् ॥२१०॥ सखेव ब्रह्मदत्तस्यात्रान्तरे कृतडम्बरः । धाराधरोऽम्बुधाराभिरुपदुद्राव तं गजम् । २११॥ ततो रसित्वा विरसं मृगनाशं ननाश सः । कुमारोऽपि भ्रमन्नद्भिर्दिग्मूढः प्राप निम्नगाम् ॥२१२।। उत्ततार कुमारस्तां नदी मूर्त्तामिवापदम् । ददर्श च तटे तस्याः पुराणं पुरमुद्वसम् ।।२१३॥ कुमारः प्रविशंस्तस्मिन्नपश्यद् वंशजालिकाम् । तत्रासि-वसुनन्दौ चोत्पातकेतु-विधू इव ॥२१४॥ तो गृहीत्वा कृपाणेन कुमारः शस्त्रकौतुकी। चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ।।२१५।। वंशजालान्तरे चासौ स्फुरदोष्ठदलं शिरः । ददर्श पतितं पृथ्व्यां स्थलपद्ममिवाग्रतः ।।२१६।। सम्यक् पश्यन्नपश्यच्च ब्रह्मसूस्तत्र कस्यचित् । वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः ॥२१७।। हा विद्यासाधनधनो निधनं प्रापितो मया । कोऽप्येषोऽनपराधो धिग मामिति स्वं निनिन्द सः ॥२१८।। अग्रतः स ययौ यावत्तावदुद्यानमैक्षत । सुरलोकादवतीर्णमवन्यामिव नन्दनम् ॥२१९।। स तत्र प्रविशन्नग्रे प्रासादं सप्तभूमिकम् । अदृशत् सप्तलोकश्रीरहस्यमिव मूछितम् ॥२२०॥ आरूढोऽभ्रंलिहे तस्मिनिषण्णां खेचरीमिव । हस्तविन्यस्तवदनां नारीमेकां स ऐक्षत ॥२२१।। उपसृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा। का त्वमेकाकिनी किंवा किंवा शोकस्य कारणम् ॥२२२।। १ अदर्शत् शां. मु.॥ २ आरूढे मु.॥
Jain Education Intero
For Private & Personal Use Only
Hiww.jainelibrary.org