________________
॥२२७॥
ऊचे कुलपतिर्वत्स तवातिमधुराकृतेः । को हेतुरत्रागमने मरौ सुरतरोरिव ॥१९६।। ततो महात्मनस्तस्य विश्वस्तो ब्रह्मसूनिजम् । वृत्तान्तमाख्यत् प्रायेण गोप्यं न खलु तादृशाम् ॥१९७॥ हृष्टस्ततः कुलपतिाहरद् गद्गदाक्षरम् । द्विधा स्थित इवात्मैको भ्राताई त्वपितुर्लघुः ॥१९८।। ततो निजगृहं प्राप्तस्तिष्ठ वत्स यथासुखम् । अस्मत्तपोभिर्वर्द्धस्व सहैवास्मन्मनोरथैः ॥१९९।। कुर्वन् जनहगानन्दममन्दं विश्ववल्लभः। असौ तत्राश्रमे तस्थौ प्रावटकालोऽप्युपस्थितः ॥२००॥ तत्राऽसौ निवसंस्तेन बलेनेव जनार्दनः । शास्त्राणि शास्त्राण्यस्त्राणि सर्वाण्यध्याप्यते स्म च ॥२०१॥ वर्षात्यये समायाते सारसालापबन्धुरे । बन्धाविव फलाद्यर्थ प्रचेलुस्तापसा वनम् ॥२०२।। सादरं कुलपतिना वार्यमाणोऽप्यगाद्वनम् । तैः सह ब्रह्मदत्तोऽपि कलभः कलभैरिव ॥२०३।। भ्रमन्नितस्ततोऽपश्यद् विष्मूत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमंस्त हस्ती कोऽप्यस्त्यदूरतः ॥२०४॥ तापसैर्वार्यमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपञ्चकस्यान्ते नागं नगमिवैक्षत ॥२०५।। निःशङ्ख बद्धपर्यङ्कः कुर्वन् गर्जितमूर्जितम् । मल्लो मल्लमिवाह्वास्त नृहस्ती मत्तहस्तिनम् ॥२०६॥ क्रुधोद्धषितसर्वाङ्गो व्याकुञ्चितकरः करी। निष्कम्पकर्णस्ताम्रास्यः कुमारं प्रत्यधावत ॥२०७॥ इभोऽभ्यर्णेऽभ्यगाद्यावत् कुमारस्तावदन्तरे। उत्तरीय प्रचिक्षेप तं वञ्चयितुमर्भवत् ॥२०८॥ अभ्रखण्डमिव भ्रश्यदन्तरिक्षात् तदंशुकम् । दशनाभ्यां प्रतीयेष क्षणादेषोऽत्यमर्षणः ॥२०९।।
For Private & Personal Use Only
॥२२७॥
Jain Education Interie
W
ww.jainelibrary.org