SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृतिविभूषितं योगशास्त्रम् ॥२२६॥ Jain Education Inte तैरेवाख्यायि मे पच्छन श्रीवत्सलाञ्छनः । भोक्ष्यते यस्तव गृहे तस्मै देया स्वकन्यका || १८३|| जज्ञे च ब्रह्मदत्तस्योद्वाहः सह तया तदा । भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥ १८४ ॥ तामुषित्वा निशां बन्धुमतीमाश्वास्य चान्यतः । ययौ कुमार एकत्रावस्थानं सद्विषां कुतः ॥ १८५ ॥ प्रान्तग्रामं प्रापतुस्तौ तत्र चाशृणुतामिदम् । पन्थानोऽधित्रह्मदत्तं सर्वे दीर्घेण रोधिताः || १८६ | प्रस्थितात्पथेनाथ पेततुस्तौ महाटवीम् । निरुद्धां श्वापदैदीर्घपुरुषैरिव दारुणैः ॥ १८७॥ ततः कुमारं तृषितं मुक्त्वा वटतरोरधः । वारिणेऽगाद् वरधनुर्मनस्तुल्येन रंहसा || १८८ || ततो वरधनुः सोऽयमुपलक्ष्य न्यरुध्यत । रुषितैर्दीर्घ पुरुषैः पोत्रिपत इव श्रभिः ॥ १८९ ॥ गृह्यतां गृह्यतामेष वध्यतां वध्यतामिति । भीषणं भाषमाणैस्तैर्जगृहै ववधे च सः ॥ १९०॥ संज्ञामधिब्रह्मदत्तं पलायस्वेति सोऽकृत । पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ॥१९१॥ ततस्तस्या महाटव्या महाटव्यन्तरं जवात् । ब्रह्ममूराश्रमीवाऽगादाश्रमादाश्रमान्तरम् || १९२ || स तु तत्र कृताहारो विरसैररसैः फलैः । तृतीये दिवसेऽपश्यदेकं तापसमग्रतः ॥ १९३॥ कुत्राश्रमो वो भगवन्निति पृच्छंस्तपस्विना । स स्वाश्रमपदं निन्ये तापसा ह्यतिथिप्रियाः || १९४ || सोयापश्यत् कुलपतिं ववन्दे पितृवन् मुदा । प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥ १९५ ॥ १ प्रातर्ग्रामं सु. ॥ २ वराहपोतः ।। ३ बबवे - त्रिषष्टि० ९ । १ । १९१ ।। ४ पृष्टस्त' मु. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: लीक: २७ ॥२२६॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy