________________
॥२२५||
प्रोवाच ब्रह्मदत्तोऽथ सखे वरधनोऽधुना। स्पर्द्धमाने इवान्योन्यं बाधेते क्षुत्तृषा च माम् ॥१७०।। क्षणमत्र प्रतीक्षस्वेत्युक्त्वा तं मन्त्रिनन्दनः। ग्रामादाकारयामास नापितं वपनेच्छया ॥१७१।। मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः। वपनं कारयामास चूलामात्रमधारयत् ॥१७२।। तथा कषायवस्त्राणि पवित्राणि स धारयन् । सन्ध्याभ्रच्छन्नबालांशुमालिलीलामधारयत् ॥१७३।। कण्ठे बरधनुन्यस्तं ब्रह्मसूत्रमधत्त च । ब्रह्मपुत्रो ब्रह्मपुत्रसादृश्यमुदवाह च ॥१७४|| मन्त्रिसूब्रह्मदत्तस्य वक्षः श्रीवत्सलाञ्छितम् । पट्टेन पिदधे प्रावृट् पयोदेनेव भास्करम् ॥१७५।। एवं वेषपरावर्त्त ब्रह्ममः सूत्रधारवत् । पारिपार्श्विकवन्मन्त्रिपुत्रोऽपि विदधे तथा ॥१७६।। ततः प्रविष्टौ ग्रामे तो पर्वणीवेन्दु-भास्करौ । केनापि द्विजवर्येण भोजनाय निमन्त्रितौ ॥१७७॥ सोऽथ तो भोजयामास भक्त्या राजानुरूपया। प्रायस्तेजोऽनमानेन जायन्ते प्रतिपत्तयः॥१७८।। कुमारस्याक्षतान् मूनि क्षिपन्ती विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरःसमाम् ॥१७९।। ऊचे ततो वरधनुर्वटोरस्याऽकलापटोः। कण्ठे बध्नासि किमिमां मृढे शण्डस्य गामिव ।।१८०।। ततो द्विजवरेणोचे ममेयं गुणबन्धुरा । कन्या बन्धुमती नास्या विनाऽमुमपरो वरः ॥१८१॥ पटूखण्डपृथिवीपाता पातिरस्या भविष्यति । इत्याख्यायि निमित्त निश्चितं चायमेव सः ॥१८२।। १ पार्षणाबिन्दु' मु. त्रिषष्टिः ९। १ । १७८ ॥
||२२५॥
५७
Jain Education Inte
!
For Private & Personal Use Only
T
ww.jainelibrary.org