________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
द्वितीय:
प्रकाश: श्लोक: २७ ॥२२॥
॥२२४॥
चुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं सस्नुषं प्रेषीजातुषे वासवेश्मनि ॥१५७॥ सवधूकः कुमारोऽपि विसृष्टान्यपरिच्छदः । तत्रागाद्वरधनुना छाययेव स्वया सह ॥१५८॥ वार्ताभिर्मन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः। निशार्द्ध व्यतिचक्राम कुतो निद्रा महात्मनाम् ॥१५९॥ चुलन्यादिष्टपुरुषैः फूत्कतुं नमिताननैः । ज्वलेति प्रेरित इव वासगेहेऽज्वलच्छिखी ॥१६०॥ धूमस्तोमस्ततो विष्वक पूरयामास रोदसीम् । चुलनीदीर्घदुष्कृत्यदुष्कीर्तिप्रसरोपमः ॥१६१॥ सप्तजिह्वोऽप्यभृत् कोटिजिह्वो ज्वालाकदम्बकः। तत् सर्व कवलीकर्तु बुभुक्षित इवानलः ॥१६२॥ किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्त्रिमः । संक्षेपादाचचक्षेऽदश्चुलनीदुष्टचेष्टितम् ॥१६३।। आक्रष्टुं त्वामितः स्थानाद्रूपं करिकरादिव । अस्ति तातेन दत्तेह सुरङ्गा सत्रगामिनी ॥१६४॥ अत्र पाणिप्रहारेण प्रकाशीकृत्य तत्क्षणात् । योगीव विवरद्वारं तद्द्वारं प्रविशाधुना ॥१६५।। आतोद्यपुटवत् सोऽथ पाणिनाऽऽस्फोटय भूपुटम् । सुरङ्गया समित्रोऽगाद् रत्नरन्ध्रेण सूत्रवत् ।।१६६॥ सुरङ्गान्ते धनुधृतौ तुरङ्गावध्यरोहताम् । राजमन्त्रिकुमारौ तौ रेवन्तश्रीविडम्बकौ ॥१६७।। पञ्चाशयोजनी क्रोशमिव पश्चमधारया । अश्वौ जग्मतुरुच्छ्वासी ततः पश्चत्वमापतुः ॥१६८॥ ततस्तौ पादचारेण प्राणत्राणपरायणौ । जग्मतुनिकषा ग्रामं कृच्छात् कोष्टकनामकम् ॥१६९।। १ वासगृहे मु. ॥ २ सुरुंगा खं.॥ ३ सुरुंगया खं. ॥ ४ कोष्टक' मु.॥
For Private & Personal Use Only
Jain Education Inter24
N
w.jainelibrary.org