________________
॥२२३॥
तयोश्च क्रूरमाकूतं विज्ञाय सचियो धनुः । इति विज्ञपयामास दीर्घराज कृताञ्जलिः ॥१४४|| कलाविन्नीतिकुशलः सूनुर्वरधनुर्मम । वहलिहयुवेवाऽस्तु त्वदाज्ञास्थधूर्वहः ॥१४५।। जरद्गव इवाहं तु यातायातेषु निःसहः । गत्वा क्वचिदनुष्ठानं करोमि त्वदनुज्ञया ॥१४६।। कमप्यनर्थ कुर्वीत मायाव्येष गतोऽन्यतः। आशङ्कनेति तं दीपों धीमद्भ्यः को न शङ्कते ॥१४७|| मायाकृतावहित्थोऽथ दीर्घः सचिवमचिवान । राज्येन त्वां विना नः कि यामिन्येव विना विधुम् ॥१४८|| धर्म सत्रादिनाऽत्रैव कुरु मा गास्त्वमन्यतः । राज्यं भवादृशै ति सवृक्षैरिव काननम् ॥१४९।। ततो भागीरथीतीरे सद्बुद्धिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ।।१५०॥ सत्रं च पान्थसार्थानामन्नपानादिना ततः। प्रवाहमिव गाङ्गं सोऽनवच्छिन्नमवाहयत् ॥१५१॥ दानमानोपकारातः स प्रत्ययितपूरुषः । चक्र सुरङ्गां द्विकोशां ततो जतुगृहावधि ।।१५२।। इतः प्रच्छन्नलेखेन सौहार्दद्रुमवारिणा । इमं व्यतिकरं पुष्पचूलमज्ञापयद्धनुः ॥१५३॥ ज्ञात्वा तत् पुष्पचूलोऽपि सुधीः स्वदुहितुः पदे । प्रेषयामास दासेरी हंसीस्थाने चकीमिव ॥१५४॥ पित्तले च स्वर्णमिति पौष्पचूलीति सा जनैः । लक्षिता भूषणमणिद्योतिताशाऽविशत् पुरीम् ॥१५५।। मूर्च्छद्गीति-ध्वनत्र्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसनुना पर्यणाययत् ॥१५६।। १ घनित्र्य शां. मु.॥
॥२२३॥
JainEducation InM
al
For Private & Personal Use Only
|www.jainelibrary.org