________________
स्वोपज्ञवृत्तिविभूषितं योगशाखम्
द्वितीय: प्रकाशः श्लोक: २७ ॥२२२॥
!!२२२॥
एकदा भद्रवशया सह नीत्वा मृगद्विपम् । साक्षेपं तद्वदेवीचे कुमारो मारसूचकम् ॥१३१॥ इति श्रुत्वाऽवदद् दीर्घः साकृतं बालभाषितम् । ततश्चुलन्युवाचेति यद्यस्त्येवं ततोऽपि किम् ॥१३२॥ हंस्याऽन्येधुर्बकं बद्धाभ्यधत्त ब्रह्मसरिति । अनया रमते ह्येष सहे कस्यापि नेदृशम् ।।१३३।। दीर्घोऽवादीदिदं देवि स्वपुत्रस्य शिशोः शृणु । अन्तरुभिन्नरोषाग्निधूमोद्गारोपमा गिरः ॥१६॥ वर्द्धमानः कुमारोऽयं तदवश्यं भविष्यति । आवयोरतिविघ्नाय करेण्वोरिव केसरी ।।१३५।। न यावत् कवचहरः कुमारो हन्त जायते । तावद्विषद्रुम इव बालोऽप्युन्मूल्यतामसौ ॥१३६॥ चुलन्यूचे कथं राज्यधरः पुत्रो विहन्यते । तिरश्च्योऽपि हि रक्षन्ति पुत्रान् प्राणानिवात्मनः॥१३७|| दीर्घोऽब्रवीत् पुत्रमूर्त्या तव कालोऽयमागतः । मा मुहस्त्वं मयि सति सुतास्तव न दुर्लभाः ।।१३८।। विमुच्यापत्यवात्सल्यं शाकिनीव चुलन्यथ । रतस्नेहपरवशा प्रतिशुश्राव तत्तथा ॥१३९।। साऽमन्त्रयद् विनाश्योऽयं रक्ष्या च वचनीयता । यद्वदाम्रवणं सेक्यं कार्य च पितृतर्पणम् ॥१४०॥ क उपायोऽथवास्त्येष विवाह्यो ब्रह्मसूरसौ । वासागारमिषात् तस्य कार्य जतुगृहं ततः ।।१४१।। गूढप्रवेशनिःसारे तत्रोद्वाहादनन्तरम् । सुषुप्ते सस्नुषेऽप्यस्मिन् ज्वाल्यो निशि हुताशनः ॥१४२॥ उभाभ्यां मन्त्रयित्वैवं पुष्पचूलस्य कन्यका। वृता वैवाहिकी सर्वसामग्री चोपचक्रमे ।।१४३॥ १ कूटप्रवेश खं,॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org