________________
॥२२१॥
कककककककककककककककककककककककककककर
एकान्ते चुलनीदेव्या सोऽतिमात्रममन्त्रयत् । वचोभिर्नर्मनिपुणैर्नुदन् स्मरशरैरिव ॥११८॥ आचारं ब्रह्मसुकृतं लोकं चावगणय्य सः । संप्रसक्तश्चुलन्याऽभूद् दुर्वाराणीन्द्रियाणि हि ॥११९।। ब्रह्मराजे पतिप्रेम मित्रस्नेहं च तावुभौ । जहतुश्चूलनीदीर्घावहो सर्वकषः स्मरः ॥१२०॥ सुखं विलसतोरेवं यथाकामीनयोस्तयोः। बहवो व्यतियान्ति स्म मुहूर्त्तमिव वासराः ॥१२१।। ब्रह्मराजस्य हृदयं द्वैतीयीकमिव स्थितम् । म-व्यज्ञासीद् धनुरिदं स्पष्टं दुश्चेष्टितं तयोः ॥१२२॥ सचिवोऽचिन्तयच्चेदं चुलनी स्त्रीस्वभावतः । अकार्यमाचरत्वेषा सत्यो हि विरलाः स्त्रियः ॥१२३॥ सकोशान्तःपुरं राज्यं न्यासे विश्वासतोऽर्पितम् । यद्विद्रवति दीर्घस्तदकार्य नास्य किञ्चन ॥१२४॥ तदसावाचरेत् किश्चित् कुमारस्यापि विप्रियम् । पोषकस्यापि नात्मीयो मार्जार इव दुर्जनः ॥१२५।। विमृश्येति वरधनुसंज्ञं स्वसुतमादिशत् । तत्तज् ज्ञापयितुं नित्यं ब्रह्मदत्तं च सेवितुम् ।।१२६॥ विज्ञप्ते मन्त्रिपुत्रेण वृत्तान्ते ब्रह्मनन्दनः । शनैः प्राकाशयत् कोपं नवोद्भिन्न इव द्विपः ॥१२७॥ ब्रह्मदत्तोऽसहिष्णुस्तन्मातृदुश्चरितं ततः। मध्ये शुद्धान्तमगमद् गृहीत्वा काक-कोकिले ॥१२८॥ वर्णसङ्करतो वध्यावेतावन्यमपीदृशम् । निश्चितं निग्रहीष्यामि तत्रेत्युच्चरुवाच सः ॥१२९।।
काकोऽहं त्वं पिकीत्यावां निजिघृक्षत्यसाविति । दीर्घेणोक्तेऽवदद्देवी मा भैषीलिभाषितात् । १३०॥ १ वरधनुःसंझं शां. ॥
॥२२॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org