SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः २७ ।।२२०॥ !२२०॥ ब्रह्ममग्न इवानन्दाद् ब्रह्मभूपतिरस्य च । ब्रह्माण्ड विश्रुतां ब्रह्मदत्त इत्यभिधां व्यधात् ॥१०५॥ षधे स जगन्नेत्रकुमुदानां मदं दिशन | पुष्यन् कलाकलापेन कलानिधिरिखामलः ॥१०६।। वक्त्राणि ब्रह्मण इव चत्वारि ब्रह्मणोऽभवन । प्रियमित्राणि तत्रेकः कटकः काशिभूपतिः ॥१०७॥ कणेरुदत्तसंज्ञोऽन्यो हस्तिनापुरनायकः । दीर्घश्च कोशलाधीशश्वम्पेशः पुष्पचूलकः ॥१८॥ ते स्नेहाद्वर्षमेकैकमेकैकस्य पुरं युताः । पञ्चाप्यधिवसन्ति स्म स्वर्दुमा इव नन्दनम् ॥१०९॥ ब्रह्मणो नगरेऽन्येास्ते यथायोगमाययुः । तत्र च क्रीडतां तेषां ययौ कालः कियानपि ॥११॥ ब्रह्मदत्तस्य पूर्णेषु वर्षेषु द्वादशस्वथ । परलोकगति भेजे ब्रह्मराजः शिरोरुजा ॥११।।।। कृत्वौद्धदेहिकं ब्रह्मभूपतेः कटकादयः। उपाया इव मूस्तेि चत्वारोऽमन्त्रयमिति ॥११२।। ब्रह्मदत्तः शिशुविदेकैकस्तावदत्र नः। तस्य प्राहरिक इब वर्षे वर्षेऽस्तु रक्षकः ॥११३।। दीर्घखातुं सुहृद्राज्यं तैः संयुज्य न्ययुज्यत । ततः स्थानाद्यथास्थानमथ जग्मुस्त्रयोऽपि ते ॥११४॥ अदीपबुद्धिर्दीर्घोऽपि ब्रह्मणो राज्यसम्पदम् । उक्षेवाऽरक्षक क्षेत्रं स्वच्छन्दं बुभुजे ततः ॥११५।। निरङ्कुशतया कोशं चिरगूढं स मूढधीः । सर्वमन्वेषयामास परममेव दुर्जनः ॥११६॥ स प्राकपरिचयादन्तरन्तःपुरमनर्गलः। सञ्चचाराधिपत्यं हि प्रायोऽधकरणं नृणाम् ॥११७|| १ कोसला ख.॥ २ द्वादशेष्यथ मु.॥ Jain Education Intel For Private & Personal Use Only Miw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy