SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ॥२१९॥ अमोचि नमुचिः प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥९१॥ निर्वास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोच्यसौ राज्ञा मान्यं हि गुरुशासनम् ।।१२।। सपत्नीभिश्चतुःषष्टिसहस्रः परिवारिता । वन्दितुं तौ सुनन्दाऽऽगात् स्त्रीरत्नमथ चक्रिणः ॥९३॥ सा सम्भूतमुनेः पादपद्मयोलुलितालका । पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ॥९४।। तस्याश्वाऽलकसंस्पर्श सम्भृतमुनिरन्वभूत् । रोमाञ्चितश्च सद्योऽभृच्छलान्वेषी हि मन्मथः ॥९५|| अथ सान्तःपुरे राज्ञि तावनुज्ञाप्य जग्मुषि । रागाभिभूतः सम्भृतो निदानमिति निर्ममे ॥९६।। दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । तत् स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि ॥९७।। चित्रोऽप्यूचे काहसीदं मोक्षदात तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोषि किम् ॥९८॥ मोहात् कृतं तन्निदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कृतमस्याऽस्तु मुद्यन्ति न भवादृशाः ॥९९।। एवं निवार्यमाणोऽपि सम्भूनश्चित्रसाधुना । निदानं नामुचदहो विषयेच्छा बलीयसी ॥१००॥ नियूढानशनौ तौ तु प्राप्तायुःकर्मसंक्षयौ । सौधर्म समजायेतां विमाने सुन्दरे सुगै ॥१०१।। च्युत्वा जीवोऽथ चित्रस्य प्रथमस्वर्गलोकतः । पुरे पुस्मितालाख्ये महेभ्यतनयोऽभवत् ।।१०२॥ च्यत्वा सम्भूतजीयोऽपि काम्पिल्ये ब्रह्मभूपतेः । भार्यायाश्चुलनीदेव्याः कुक्षौ समवतीर्णवान् ।।१०३॥ चतुर्दशमहास्वमसूचितागामिवैभवः । अथ जज्ञे सुतस्तस्याः प्राच्या इव दिवाकरः ॥१०॥ For Private & Personal Use Only Jain Education in Tww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy