________________
स्वोपज्ञ
वृति
विभूषितं योगशास्त्रम
।।२१८।।
Jain Education Inter
तस्य कोप उपाशाम्यचित्रवाक्यैः श्रुतानुगैः । पयोवाहपयः पूरै गिरेरिव दवानलः ॥ ७९||
૧
1
महाकममुक्तः शशाङ्क इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः ||८०|| वन्दित्वा क्षमयित्वा च लोकस्तस्माद् न्यवर्त्तत । सम्भूतचित्रमुनिना तदुद्यानमनीयत ॥ ८१ ॥ पश्चात्तापं चक्रतुस्तौ पर्यटद्भिर्गृहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् ||८२|| शरीरं गत्वरमिदं ह्याहारेणापि पोषितम् । किमनेन शरीरेण किं बाहारेण योगिनाम् ||८३ || चेतसीति विनिश्चित्य कृतसंलेखनौ पुरा । उभौ चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ||८४|| कः पराभूतवान् साधुं वसुधां पाति मय्यपि । इति जिज्ञासतो राज्ञो मन्त्री व्यज्ञपि केनचित् ||८५|| अनाति यः सोऽपि पापः किमुत हन्ति यः । इत्यानाययदुर्वीशो दस्युवत् संयमय्य तम् ||८६ ॥ अन्योऽपि साधुविध्वंसं मा विधादिति शुद्धधीः । तं बद्धं पुरमध्येन सोऽनैषीत्साधुसन्निधौ ||८७|| नमन्नृप शिरोरत्नभाभिरम्भोमयीमिव । कुर्वन्नुर्वी' स उब्वशपुङ्गवान् ||८८|| सव्यपाणिगृहीता स्वस्त्रिका पिहिताननौ । उदक्षिणकरौ तौ तमाशशंसतुराशिषा ॥ ८९ ॥ यो वोsपराधवान् सोsस्तु स्वकर्मफलभाजनम् । राज्ञा सनत्कुमारेणेत्यदर्शि नमुचिस्तयोः ॥ ९० ॥
१ तीव्रकोप' खं. ग. च. ड. त्रिषष्टि० ९। ९। ८१ ।। २ मिदमाहा० खं. ॥ ३ चेतसेति खं त्रिषष्टि० ९ । १ । ८५ ।। ४ फलभागसौ क. छ. ॥
For Private & Personal Use Only
द्वितीय: प्रकाश:
लोक: २७
રા
5
10
www.jainelibrary.org