________________
२२७॥
लकुरैः कुट्यमानोऽसौ सस्यबीजमिवोत्कटैः । स्थानात्ततोऽपचक्राम त्वरितं त्वरितं मुनिः ॥६८|| अमुच्यमानः कुट्टाकै निर्यन्नपि मुनिस्तदा । शान्तोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः ॥६९।। निर्जगाम मुखात्तस्य बाष्पोत्पीलः समन्ततः । अकालोपस्थिताम्भोद विभ्रमं विभ्रदम्बरे ॥७०॥ तेजोलेश्योल्ललासाथ ज्वालापटलमालिनी। तडिन्मण्डलसङ्कीर्णामिव द्यामभितन्वती ॥७१।। अतिविष्णुकुमारं तं तेजोलेश्याधरं ततः। प्रसादयितुमाजग्मुः पौराः सदयकौतुकाः ॥७२।। राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययो। उत्तिष्ठति यतो वह्निस्तद्धि विध्यापयेत् सुधीः ॥७३॥ नत्वोचे तं नृपः किं वो युज्यते भगवन्निदम् । चन्द्राश्माकौशुतप्तोऽपि नाचिमुञ्चति जातुचित् ॥७४॥ एभिरत्यपराद्धं यत् कोपोऽयं भवतामपि । क्षीराब्धेर्मथ्यमानस्य कालकूटमभन्न किम् ॥७५॥ न स्यात् स्याञ्चेच्चिरं न स्याचिरं चेत्तत्फलेऽन्यथा। खलस्नेह इव क्रोधः सतां तद् बमहेऽत्र किम् ।।७।। तथापि नाथ नाथामि कोपं मुश्चेतरोचितम् । भवादृशाः समदृशो ह्यपकार्युपकारिषु ॥७७|| चित्रोऽप्यत्रान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । सान्त्वयितुं भद्रमिव द्विपं मधुरभाषितैः ॥७८।। १ स्वस्तित्वरितं खं. त्रिषष्टिः ९।११६९ ॥ २ बाष्पो नीलः मु. । बाष्पोत्पीडं त्रिषष्टि०९।१।७१ ।। ३ भवतामत: मु. त्रिषष्टिः ९।१।७६ ॥ ४ स्याच्चे न चिरं स्याधिरं खं ॥ ५ सम्भूति खं. ॥
॥२१७॥
Jain Education Intelor
For Private & Personal use only
ww.jainelibrary.org
५५