________________
॥२२५॥
कावेताविति विज्ञातुं लोकः कृष्टावगुण्ठनौ । अरे तावेव मातङ्गावित्याक्षेपेण भाषितौ ॥४४॥ नागरैः कुट्यमानौ तौ यष्टिभिर्लोप्टुभिस्ततः । श्वानाविव गृहात् पुर्या नतग्रीवौ निरीयतुः ॥४५॥ तौ सैन्यशशवल्लोकैर्हन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गम्भीरोद्यानमीयतुः ॥४६॥ तावचिन्तयतामेवं धिग नौ दुर्जातिदूषितम् । कलाकौशल-रूपादि पयो घातमिवाहिना ॥४७॥ उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणाया: शान्तेर्वेताल उत्थितः ॥४८॥ कला-लावण्य-रूपाणि स्यूतानि वपुषा सह । तदेवानर्थसदनं तृणवन्यज्यतां क्वचित् ॥४९॥ इति निश्चित्य तौ प्राणपरिहाणपरायणौ । मृत्यु साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि ।।५०॥ ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्रारूद्वैर्भुवीक्ष्यन्ते करिणः किरिपोतवत् ॥५१॥ भृगुपातेच्छया ताभ्यामारोहद्भ्यां महामुनिः। ददृशे पर्वते तस्मिन् जङ्गमो गुणपर्वतः ॥५२॥ प्रावृषेण्यमिवाम्भोदं मुनि गिरिशिरःस्थितम् । दृष्ट्वा प्रणष्टसन्तापप्रसरौ तो बभूवतुः ॥५३।। तौ प्राग्दुःखमिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोभृङ्गाविव सद्यो निपेततुः ।।५४।।
समाप्य मुनिना ध्यानं को युवां किमिहागतौ । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ।।५५।। १ तावेताविति शां. खं. ॥ २ पुर्या-प्रतिषु ॥ ३ दुर्जाति' ख. ग. च. ड.॥ ४ क्षणात् मु.॥ ५ परिहारप मु.॥
Jain Education Intel
For Private & Personal Use Only
E
ww.jainelibrary.org