________________
स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोक: २७ ॥२१४॥
१२९४ा
शिवः शिवोर्वशी रम्भा मुझकेशी तिलोत्तमा। यन्नाटयं न विदाञ्चक्रुस्तौ तदप्यभिनिन्यतुः ॥३३॥ सर्वगान्धर्वसर्वस्वमपूर्व विश्वकार्मणम् । प्रकाशयद्यामेताभ्यां न जहे कस्य मानसम् ॥३४॥ तस्यां पुरि प्रववृते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चय॑स्तत्र संगीतपेशलाः ॥३५॥ चर्चरी निर्ययौ तत्र चित्र-सम्भूतयोरपि । जग्मुस्तत्रैव तद्गीताकृष्टाः पौरा मृगा इव ॥३६॥ राज्ञो व्यज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । गीतेनाकृष्य सर्वोऽयमात्मवन्मलिनः कृतः ॥३७॥ मापेनापि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः क्वचित् ॥३८॥ ततः प्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तश्चैकदा तत्र कौमुदीपरमोत्सवः ॥३९॥ राजशासनमुलवध लोलेन्द्रियतया च तौ। प्रविष्टौ नगरौं भङ्गो गजगण्डतटीमिव ॥४०॥ उत्सवं प्रेक्षमाणौ तौ सर्वाङ्गीणावगुण्ठनौ । दस्युवन्नगरीमध्ये छन छन्नं विचरतुः ॥४१॥ क्रोष्टुवत् क्रोष्टुशब्देन पौरगीतेन तौ तत: । अगायतां तारतारमलङ्घया भवितव्यता ॥४२॥
आकर्ण्य कर्णमधुरं तद्गीतं युवनागरैः । मधुवन्मक्षिकाभिस्तौ मातङ्गो परिवारितौ ॥४३॥ १ तमाः मु.॥ २ चञ्चर्य खं. ॥ ३ 'सला: शां. खं. ॥ ४ चचरी खं. ॥ ५ विज्ञपि शां. खं. ॥ ६ छन्नच्छन्नं खं.॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org