SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ॥२२३॥ Jain Education Intern : 00000000000000000000000000:00 चित्र-सम्भूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां सम्बद्धौ नख- मांसवत् ॥२०॥ वाराणस्यां तदा चाभ्रच्छ इत्यवनीपतिः । आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥ २१॥ अपरेद्युः सोऽपराधे महीयसि महीभुजा । अर्पितो भूतदत्तस्य प्रच्छन्नवध हेतवे ॥ २२ ॥ तेनोचे नमुचिश्छन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः ||२३|| प्रतिपन्नं नमुचिना तन्मातङ्गपतेर्वखः । जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् ||२४|| fferent स तथाऽध्यापयत् कलाः । रेमेऽनुरक्तया सार्द्ध मातङ्गपतिभार्यया ||२५|| ज्ञात्वा तद् भृतदत्तेनारेभे मारयितुं स तु । सहते कः स्वदारेषु पारदारिकविप्लवम् ||२६|| ज्ञात्वा मातङ्गपुत्राभ्यां स दूरेणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ||२७|| ततो निःसृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिववक्रिणा निजः ||२८|| इतश्च चित्रसम्भृतौ भर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव ||२९|| at स्वादु जगतुर्गीतं हाहा हूहूपहासिनौ । वादयामासतुर्वीणामतितुम्बुरु - नारदौ ||३०|| गीतप्रबन्धानुगतैः सुव्यक्तैः सप्तभिः स्वरैः । तयोर्वादयतोर्वेणुं किंकरन्ति स्म किन्नराः ॥ ३१ ॥ मुरजं धीरघोषं तौ वादयन्तौ च चक्रतुः । गृहीतमुरकंकाला तोद्य कृष्ण विडम्बनाम् ||३२|| १ मपि तु खं. ॥ २ नम् खं. ॥ ५४ For Private & Personal Use Only ०००००० 10 ॥२९३॥ w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy