SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषित योगशास्त्रम् द्वितीयः प्रकाश: श्लोक: २७ ॥२१२।। पा२१२॥ प्रवबजुस्ते तत्पात्रं चत्वारः शमशालिनः । चतुर्विधस्य धर्मस्य चतस्र इव मूर्तयः ॥७॥ व्रतं तेऽपालयन् सम्यक किन्तु द्वौ तत्र चक्रतुः । धर्मे जुगुप्सां चित्रा हि चित्तवृत्तिः शरीरिणाम् ॥८॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाहकृतं तपः। ९॥ च्युत्वा ततो दशपुरे शाण्डिल्यब्राह्मणादुभौ । युग्मरूपी सुतौ दास्यां जयवत्यां बभूवतुः ॥१०॥ तौ क्रमाद्यौवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमीदृग् हि दासेराणां नियोजनम् ॥११॥ तयोः शयितयोर्नक्तं निःसृत्य वटकोटरात् । एकः कृष्णाहिना दष्टः कृतान्तस्येव बन्धुना ॥१२॥ ततः सर्पोपलम्भाय द्वितीयोऽपि परिभ्रमन् । वैरादिवाशु तेनैव दष्टो दुष्टेन भोगिना ॥१३॥ तावनाप्तप्रतीकारौ वराको मृत्युमापतुः। यथाऽऽयातौ तथा यातौ निष्फलं जन्म धिक् तयोः १४॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ ववृधाते सहैव च ॥१५॥ प्रीत्या सह चरन्तौ तौ मृगौ मृगयुणा हतौ । बाणनैकेनैकेकालं कालधर्ममुपेयतुः ॥१६॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि । अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥१७॥ क्रीडन्तावेकदेशस्थौ धृत्वा जालेन जालिकः । ग्रीवां भक्त्वाऽवधीद्धर्महीनानां हीदृशी गतिः॥१८॥ वाराणस्यां ततोऽभूतां भृतदत्ताभिधस्य तौ। महाधनसमृद्धस्य मातङ्गाधिपतेः सुतौ ।।१९।। १ काहः कृतं मु.॥ २ संडिलबा शां. खं. ॥ ३णावुभौ -प्रतिषु पाठः ॥ ४ भक्त्या शां. खं. ॥ Jain Education Inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy