________________
।।२११।
Jain Education Int
एवं चतुर्दिशं भ्राम्यन् घरवणकानिव । दलयन् सुभटानुर्वी स पट्खण्डामसाधयत् ॥ ९९|| उज्जासयन्नमतामिति नित्यरौद्रध्यानानलेन सततं ज्वलदन्तरात्मा ।
आसाद्य कालपरिणामवशेन मृत्युं तां सप्तमीं नरकभूमिमगात् सुभ्रूमः ॥ १०० ॥ [ इति सुभूमचक्रवर्तिकथानकम् ॥ ]
अथ ब्रह्मदत्तकथा
साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचन्द्रोऽभूच्चन्द्रवन्मधुराकृतिः ॥ १॥ निर्विण्णः कामभोगेभ्यो मारेभ्य इव भारिकः । मुनेः सागरचन्द्रस्य पार्श्वे जग्राह स व्रतम् ||२|| प्रव्रज्यां जगतः पूज्यां पालयन्नयमन्यदा । देशान्तरे विहाराय चचाल गुरुणा सह ||३|| स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद् भ्रष्टोऽटवीमाट यूथच्युत इवैणकः ||४|| स तत्र क्षुत्पिपासाभ्यामाक्रान्तो ग्लानिमागतः । चतुर्भिः प्रतिचरितो वल्लवैर्बान्धवैरिव ||५|| स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ||६||
१ [
] पतदन्तर्गत: पाठो नास्ति शां. खं । मुद्रिते दृश्यते ॥
२ प्रायः सर्वमिदं ब्रह्मदत्तच क्रिकथानकं त्रिषष्टिशलाकापुरुषचरिते नवमे पर्वणि प्रथमे सर्गे विद्यते, लो०२
४४८, ४६५, ४८५, ५११, ५७२- ५९७ ॥
For Private & Personal Use Only
10
॥२११॥
www.jainelibrary.org