SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ||॥२१०॥ Jain Education Inter तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणे क्रुद्धः क्षात्रं तेजो हि दुर्द्धरम् ||८६ ॥ तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ताः पायसीभूताः सुभुजो बुभुजे च सः ॥ ८७॥ उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जघ्निरे मेघनादेन व्याघ्रेण हरिणा इव ||८८ || प्रस्फुरदंष्ट्रिकाश दर्शनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाययौ ॥ ८९ ॥ रामेण मुमुचे रोषात् सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ॥९०॥ अाभावात् सुभूमोsपि दंष्ट्रा स्थालमुद क्षिपत् । चक्रीवभूव तत् सद्यः किं न स्यात् पुण्यसम्पदा ॥ ९१ ॥ चक्रवष्टमः सोऽथ तेन चक्रेण भास्वता । शिरः परशुरामस्य पङ्कजच्छेदमच्छिदत् ॥९२॥ क्षमां निःक्षत्रियां रामः सप्तकृत्वो यथा व्यघात् । एकविंशतिकृत्वस्तां तथा निर्ब्राह्मणामसौ ॥९३॥ क्षुण्ण क्षितिपहस्त्यश्वपदातिव्यूहलोहितैः । वाहयन् वाहिनीर्नव्याः स प्राक् प्राचीमसाधयत् ॥ ९४ ॥ सच्छिन्नाने कसुभटमुण्डमण्डितभूतलः । दक्षिणाशां दक्षिणाशापतिरन्य इवाजयत् ॥ ९५ ॥ भटास्थिभिर्दन्तुरयन् शुक्ति-शङ्खैरिवाभितः । रोधो नीरनिधेः सोऽथ प्रतीचीमजयद्दिशम् ॥ ९६ ॥ हेलोद्घाटितवैाढ्यकन्दरः स्थाममन्दरः । म्लेच्छान् विजेतुं भरतोत्तरखण्डं विवेश सः ||९७|| उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राथ सोऽभाङ्क्षीदिक्षूनिव महाकरी ||१८|| १ नित्रा खं. ॥ २ महाकिरिः शां. वं. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक २७ ॥२१०॥ 1 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy