SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ॥२०९ ।। Jain Education Inter किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ॥ ७३ ॥ रामोऽप्यमर्षान्निःक्षत्रां सप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ॥ ७४॥ क्षुण्णक्षत्रियष्टाभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्र श्रियं दधत् ॥७५॥ रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वधः । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ ७६॥ यो दंष्टाः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यते मूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् । ७७ || रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत् स्थालमग्रतः ॥७८॥ अथाश्रमे प्रतिदिनं लालयद्भिस्तपस्विभिः । निन्येऽङ्गणद्रुम इव सुभूमो वृद्धिमद्भुताम् ॥७९॥ विद्याधरो मेघनादोऽन्येद्युर्नैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ||८०|| तस्या वरं वरीयांनं सुभूमं तेऽप्युपादिशन् । दच्या कन्यां ततस्तस्मै तस्यैवाभूत् स सेवकः ॥ ८१ ॥ कूपभेक इवानन्यगोऽथ पप्रच्छ मातरम् । सुभ्रमः किमियानेव लोकोऽयमधिकोऽपि किम् ॥ ८२ ॥ माताप्यची कथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमात्रं हि लोकमध्येऽयमाश्रमः ||८३ || अस्मिन् लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत्तत्र राजा महाभुजः ||८४|| हत्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षिति निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ||८५ || १ तथान्येद्युः कुतो मम । बधो वैरायमाणा - शां. खं च ड ॥ २ हस्तिनं पुरम् शां. ॥ For Private & Personal Use Only પર 10 ॥ २०९ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy