SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ||२०७ || Jain Education Int सादाद् ब्राह्मं चरुं स्वत्रे जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः ||४८ || राम ऋषि पैतृकेऽपि सः । क्षात्रं प्रदर्शयंस्तेजो हुताशनमिवाम्भसि ||४९|| विद्याधरोऽन्यदा तत्र कोडप्यागादतिसारकी । विद्या तस्यातिसाराय विस्मृता काशगामिनी ॥५०॥ रामेण प्रतिचरितो भेषजाद्यैः स बन्धुवत् । रामाय सेवमानाय विद्यां पारशवीं ददौ || ५१|| मध्येrरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत् ततः प्रभृति विश्रुतः ॥ ५२ ॥ अन्येद्युः पतिमापृच्छथ रेणुकोत्कण्ठिता स्वसुः । जगाम हास्तिनपुरे प्रेम्णो दूरे न किश्चन ॥|| ५३ || श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्योऽरमयत् कामः कामं निरङ्कुशः ||५४ || ऋषिपत्न्या तथा राजाsहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं सम्भोगसुखसम्पदम् ॥५५॥ अनन्तवीर्यात्तनयो रेणुकायामजायत । ममतायामिवोतथ्यस धर्मिण्यां बृहस्पतेः ॥ ५६ ॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ॥५७॥ पुत्रसहितां वल्लीमकालफलितामिव । सञ्जतकोप: परशुरामः परशुनाऽच्छिनत् ||५८|| तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ॥ ५९ ॥ ततश्वार्योर्वीर्योऽनन्तवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वामाक्षीद् मत्त इव द्विपः ||६०|| १ पैत्रिके शां. खं. ॥ २ 'तथ्यः स खं. पू. त्रिषष्टि० ६ । ४ । ६२ ॥ For Private & Personal Use Only OOOOOOO 5 10 ॥२०७॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy