________________
॥२०॥
चटकश्चटकामूचे यास्यामि हिमवगिरौ। अन्यासक्तो नैष्यसि त्वमिति तं नान्वमंस्त सा ॥२२॥ गोघातपातकेनाहं गृह्ये नायामि चेत् प्रिये । इत्युक्तशपथं भूयश्चटकं चटकाऽब्रवीत् ॥२३॥ ऋषेरस्यैनसा गृह्ये शपेथा इति चेत् प्रिय । विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥२४॥ इत्याकर्ण्य वच: क्रुद्धो जमदग्निमुनिस्ततः। उभाभ्यामपि हस्ताभ्यामुभी जग्राह पक्षिणौ ॥२५॥ आचचक्षे ततो हन्त कुर्वाणे दुष्करं तपः । उष्णरश्माविव धान्तमाः पापं मयि कीदृशम् ॥२६॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न किं श्रुतिम् ।।२७॥ तत्तथा मन्यमानोऽयं मुनिरेवमचिन्तयत् । ममाकलनःपुत्रस्य प्रवाहे मूत्रितं तपः ॥२८॥ क्षुभितं तं परिज्ञाय धिग् भ्रान्तस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः, प्रत्येति प्रत्ययान कः ॥२९॥ वभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिककोष्टकम् ॥३०॥ जितशत्रु महीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां दक्षं हर इवागमत् ॥३१॥ कृत्वाभ्युत्थानमुर्वीशः प्रालिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् ॥३२॥ कन्यार्थमागतोऽस्मीति मुनिनोक्ते नृपोऽब्रवीत् । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ॥३३।।
स कन्यान्तःपुरं गत्वा जगाद नृपकन्यकाः । धर्मपत्नी मम काचिद् भवतीभ्यो भवत्विति ॥३४॥ १ नेष्यसि खं. ॥ २ 'ग्निस्तु खं.॥
॥२०॥
Jain Education Intem
For Private & Personal use only
Www.jainelibrary.org