________________
॥२०३॥
Jain Education Inte
T
श्रूयते आकर्ण्यते एतदागमे यदुत प्राणिघातेन हेतुना सुभूम ब्रह्मदशौ चक्रवर्तिनौ सप्तमं नरकं गतौ । हिंसाया नरकगमनहेतुत्वं न रौद्रध्यानमन्तरेण भवति, अन्यथा सिंहवधकतपस्विनोऽपि नरकः स्यादित्युक्तम् ' रौद्रध्यानपरायणा', हिंसानुबन्धिध्यानयुक्तावित्यर्थः । यथा तौ नरकं गतौ तथा कथानकद्वारेण दर्श्यते । तथाहिवसन्तपुरनामा पुर्यामुच्छन्नवंशकः । आसीच्च्युत इवाकाशादशिको नाम दारकः | १ || सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यन्नगमत् तापसाश्रमम् ||२॥ तमग्निं तनयत्वेनाग्रहीत् कुलपतिर्ज्जमः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत् || ३ || तप्यमानस्तपस्तीक्ष्णं प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले || ४ | अत्रान्तरे महाश्राद्धो नाम्ना वैश्वानरः सुरः । धन्वन्तरिश्व तापसभक्तो व्यवदतामिति ॥ ५॥ एक आहातां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् || ६ || आईतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ? ॥७॥ तदानीं मिथिलापुर नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीपतिः ||८|| दीक्षां श्रीवासुपूज्यन्ते ग्रहीतुं भावतो यतिः । गच्छंचम्पापुरीं ताभ्यां देवाभ्यां दहशे पथि ॥ ९ ॥
२ इस आरभ्य प्रायः सर्वमपि सुभूमचक्रवर्तिकथानकमिदं त्रिषष्टिशलाकापुरुषचरिते षष्ठे पर्वणि समानप्रायं वर्तते ६ । ४ । ९-१०९ ॥
For Private & Personal Use Only
10
॥२०३॥
www.jainelibrary.org