SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषित योगशास्त्रम् द्वितीयः प्रकाश: श्लोक:२३ ॥२०॥ ॥२०॥ प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वोर्वीदानेऽपि न शाम्यति ॥२२॥ प्राणी जन्तुः, प्राणितं जीवितव्यम् , तस्य लोभेन राज्यमपि तत्कालोपस्थितं परिहरति । यदाह "मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥" [ ] तत्तथाविधप्राणितप्रियप्राणिवधसम्भवं पापं सकलपृथ्वीदानेनापि न शाम्यति । भूदान हि सकलदानेभ्योऽम्यधिकमिति श्रुतिः ॥२२॥ अथ श्लोकचतुष्टयेन हिंसाकर्तुनिन्दामाह __वने निरपराधानां वायु-तोय-तृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी विशिष्यत कथं शुनः ? ॥२३॥ मृगाणामिति “निप्रेभ्यो नः" [ सि० २ । २। १५ ] इति कर्मत्वप्रतिषेधाच्छेषे षष्ठी। वने वनवासिनां, न तु परस्वीकृतभूमिवासिनाम् । तथाविधा अपि सापराधाः स्युरित्याह-निरपराधानां परधनहरण-परगृहभङ्ग-परमारणाद्यपराधरहितानाम् । निरपराधत्वे हेतुमाह-वायुतीयतृणाशिनाम् । न हि वायु-तोय-तृणानि परधनानि येन तदुभक्षणात सापराधत्वं स्यात् । मांसार्थीति अत्रापि मृगाणामिति सम्बध्यते । मृगाणां यन्मांस तदर्थयते. मृगग्रहणे Jain Education Inter For Private & Personal Use Only Fiww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy