SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ।।१९९ ।। Jain Education Int ननु प्रतिषिद्धाचरणे दोषः प्रतिषिद्धा व सजीव विषया हिंसा, स्थावरेषु स्वप्रतिषिद्धद्दिसेषु यथेष्टं चेष्टन्तां गृहस्था इत्याह निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसा महिंसा धर्मज्ञः काङ्क्षन् मोक्षमुपासकः ||२१|| स्थावराः पृथिव्यतेजो- वायु-वनस्पतयः, तेष्वपि जीवेषु हिंसां न कुर्वीत । किंविशिष्टाम् १ निरर्थिकां प्रयोजनरहिताम्, शरीरकुटुम्ब निर्वाहनिमित्तं हि स्थावरेषु हिंसा न प्रतिषिद्धा, या त्वनर्थिका शरीरकुटुम्बादिप्रयोजनहिता तादृशीं हिंसां न कुर्वीत उपासकः श्रावकः । किंविशिष्टः ? अहिंसा धर्मज्ञः, अहिंसालक्षणं धर्म जानातीति अहिंसाधर्मज्ञः । न हि प्रतिषिद्धवस्तुविषयैवा हिंसा धर्मः किन्त्वप्रतिषिद्वेष्वपि सा यतनारूपा । ततश्च तथाविधं धर्म जानन् स्थावरेष्वपि निरर्थकां हिंसां न विदधीत । ननु प्रतिषिद्धविषयैवा हिंसास्तु, किमनया, सूक्ष्मेक्षिकया ? इत्याह- काङ्क्षन् मोक्षम् स हि मोक्षाकाङ्क्षी यतिवत् कथं निरर्थिकां हिंसामाचरेत् ? ॥२१॥ ननु निरन्तरहिंसा परोऽपि सर्वस्वं दक्षिणां दच्या पापविशुद्धिं विदध्यात् किमनेन हिंसापरिहारक्लेशेन ? इत्याह १ पृथिव्यप्तेजो ग. व. छ. ॥ For Private & Personal Use Only " 10 ।।१९९ ।। www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy