________________
स्वोपज्ञवृत्ति
विभूषितं
शम्
।।१९८।।
Jain Education Inte
तत् परलोकिनः सिद्धौ परलोको न दुर्घटः । तथा च पुण्यपापादि सर्वमेवोपपद्यते ||२६|| तपांसि यातनाचित्रा इत्याद्युन्मत्तभाषितम् । सचेतनस्य तत् कस्य नोपहासाय जायते ||२७|| निर्वाधोऽस्ति ततो जीवः स्थित्युत्पाद - व्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता कर्त्ता कायप्रमाणकः ||२८|| तदेवमात्मनः सिद्धौ हिंसा किं नोपपद्यते । तदस्याः परिहारेणाहिंसा व्रतमुदीरितम् ||२९||१९|| हिंसा नियमे स्पष्टं दृष्टान्तमाह
आत्मवत् सर्वभूतेषु सुख-दुःखे प्रिया-प्रिये ।
चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ||२०||
सुखशब्देन सुखसाधनमन्न-पान - स्रक् चन्दनादि गृह्यते । दुःखशब्देन दुःखसाधनं वध - बन्ध-मारणादि । ततो यथात्मनि दुःखसाधनमप्रियं तथा सर्वभूतेष्वपि । एवं चिन्तयन् दुःखसाधनत्वादप्रियां परस्य हिंसां न कुर्वीत । सुखग्रहणं दृष्टान्तार्थम् । यथा सुखसाधनं प्रियमेवं दुःखसाधनमप्रियमित्यर्थः । यदाहुलैकिका अपि“ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
"
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। " [
१ स्वयमेवों क. च. ॥
इति ॥२०॥
२ दुःखसाधनमप्रियम् । तथा सर्वभूतेष्वपि दुःखसाधनमप्रियमित्यर्थः । यदाहु मु. ॥
For Private & Personal Use Only
द्वितीय:
प्रकाशः
श्लोक २०
॥१९८॥
5
10
www.jainelibrary.org