________________
।।१९७ ।।
Jain Education Inter
तदसाम्प्रतं ते हि हता नरकगामिनः । अनन्तेषु नियोज्यन्ते दुःखेषु स्वल्पदुःखकाः ||१४|| कि सौख्यवतां घाते धर्मः स्यात् पापवारणात् । इत्थं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥ १५ ॥ Faraar: प्रादुरात्मैव तावन्नास्ति कथञ्चन । तं विना कस्य सा हिंसा कस्य हिंसाफलं भवेत् ॥ १६ ॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः । भूतसंहृतिनाशे च पञ्चत्वामति कथ्यते ॥१७॥ आत्माभावे च तन्मूलः परलोको न युज्यते । अभावे परलोकस्य पुण्यापुण्यकथा वृथा || १८ || “ तपांसि यातनाश्चित्राः संयमो भोगवञ्चना । " इति विप्रतिपतभ्यः परेभ्यः परिभाष्यते ॥ १९ ॥ स्वसंवेदनतः सिद्धः स्वदेहे जीव इष्यताम् । अहं दुःखी सुखी वाहमिति प्रत्यययोगतः ||२०|| घटं वेद्यहमित्यत्र त्रितयं प्रतिभासते । कर्म्म क्रिया च कर्त्ता च तत् कर्त्ता किं निषिध्यते ॥ २१ ॥ शरीरमेव चेत् कर्तृ, न कर्तृ तदचेतनम् | भूतचैतन्ययोगाश्चेच्चेतनं तदसङ्गतम् ||२२||
मया दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येककर्तृका भावा भूतचिद्वादिनः कथम् ||२३|| स्वसंवेदनतः सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते ||२४|| बुद्धिपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्गतिः । प्रमाणबलतः सिद्धा केन नाम निवार्यते ||२५||
१ 'काभावात् भूतचि' मु. ॥ २" बुद्धिपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्गतेः । ज्ञायते बुद्धिसद्भाव: सा न येषु न तेषु धीः ।। " इति तस्वार्थराजवार्तिके उद्धृतः श्लोकः ॥
५०
For Private & Personal Use Only
5
10
।।१९७।।
www.jainelibrary.org