________________
स्वीपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोक: १९ ॥१९६।
॥१९६॥
येषामेकान्तिको भेदः सम्मतो देह-देहिनः । तेषां देहविनाशेऽपि न हिंसा देहिनो भवेत् ॥१॥ अभेदैकान्तवादेऽपि स्वीकृते देह-देहिनोः । देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै ॥२॥ भिन्नाभिन्नतया तस्माज्जीवे देहात् प्रतिश्रुते । देहनाशे भवेत् पीडा या तां हिंसां प्रचक्षते ॥३॥ दुःखोत्पत्तिर्मनःक्लेशस्तत्पर्यायस्य च क्षयः । यस्यां स्यात् सा प्रयत्नेन हिंसा हेया विपश्चिता ॥४॥ प्राणी प्रमादतः कुर्याद्यत् प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञैर्वीजं संसारभूरुहः ॥५॥ शरीरी प्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥६॥ जीवस्य हिंसा न भवेनित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात् कथं हिंसोपपद्यताम् ॥७॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते। हिंसा कायवियोगेन पीडातः पापकारणम् ॥८॥ केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणिघातिनः । हिंस्रस्येकस्य घाते स्याद् रक्षणं भूयसा किल ।९।। तदयुक्तमशेषाणां हिंस्रत्वात् प्राणिनामिह । हन्तव्यता स्यात् तल्लाभमिच्छोर्मूलक्षतिः स्फुटा ॥१०॥ अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥११॥ पापहेतुर्वधः पापं कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥१२॥ संसारमोचकास्त्वाहुर्दुःखिना वध इष्यताम् । विनाशे दुःखिना दुःखविनाशो जायते किल ॥१३॥ १ क्षिति: खं.॥ २ स्फुटम्-ध. क. छ.॥
For Privale & Personal Use Only
Jain Education Intel
Niww.jainelibrary.org