SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ इह नादृष्टपापफलाः पापानिवर्तन्त इति पापफलमुपदर्शयन् हिंसाविरतिव्रतमुपदिशति । पङ्गुः सत्यपि पादे पादविहरणाक्षमः, कुष्ठी त्वग्दोषी, कुणिविकलपाणिः, तेषां भावः पङ्गुकुष्ठिकुणित्वम् । आदिग्रहणात् पङ्गुत्वोपलक्षितमधःकायवैगुण्यं कुष्ठित्वोपलक्षितं सकलरोगजातं कुणित्वोपलक्षितमपरिकायवैगण्यं संग्रह्यते । एतहिंसाफलं दृष्टवा सुधीरिति बुद्धिमान् , स हि शास्त्रबलेन हिंसायाः फलमेतदिति निश्चित्य हिंसां त्यजेत् । अत्र विधौ सप्तमी। केषाम् ? निरागस्त्रसजन्तूनाम् । निरागसो निरपराधाः, सा द्वीन्द्रियादयः, तेषाम् । सङ्कल्पेन सङ्कल्पतः, आधादित्वात् तृतीयान्तात् तसुः । निरागस इति निरपराधजन्तुविषयां हिंसां प्रत्याचष्टे, सापराधस्य तु न नियमः । त्रसग्रहणेनकेन्द्रियविपयां हिंसां नियमयितुं न क्षम इत्याचष्टे । सङ्कल्पत इति 'अमुं जन्तुं मांसाथित्वेन इन्मि' इति सङ्कल्पपूर्वक हिंसां वर्जयेत् । आरम्भजा तु हिंसा अशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति । अत्रान्तरश्लोकाः१"सप्तमी-यात् याताम् युस, या यातम् यात, याम् याष याम । ईत ईयाताम् ईरन , थास ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥ पञ्चमी-तु ताम् अन्तु, हितम् त, आनिव् आव आमम् । ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐव आबहैव् आम हैव ॥"-सि० ३।३। ७-८॥"इच्छार्थे सप्तमीपञ्चम्यौ। विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने ॥" सि०५।४।२७-२८॥ २ ॥ आधादिभ्यः। ७।२। ८४ । एभ्य: सम्भवत्स्याधन्तेभ्यस्तसुः स्यात् ।।" -सि० ल०॥ ॥१९॥ Jain Education Intel For Private & Personal Use Only alww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy