________________
स्वोपक्षवृत्तिविभूषित योगशास्त्रम्
द्वितीयः प्रकाशा श्लोक: १९ ॥१९॥
च ७, एते करणेन सप्त भङ्गाः। एवं कारणेन सप्त । अनुमत्या सप्त । तथा हिंसां न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७। एते करण-कारणाभ्यां सप्त भङ्गाः। एवं करणा-ऽनुमतिभ्यां सप्त। कारणा-ऽनुमतिभ्यामपि सप्त। करण-कारणा-ऽनुमतिभिरपि सप्त। एवं सर्वे मीलिता एकोनपञ्चाशद् भवन्ति । एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवति । यदाह
" सेयालं भंगसयं पञ्चकखाणम्मि जस्स उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकुसलाओ।" [ ] त्रिकालविषयता चातीतस्य निन्दया. साम्प्रतिकस्य संवरणेन, अनागतस्य प्रत्याख्यानेनेति । यदाह" अइ निदामि, पडुप्पन्नं संवरेमि, अणागयं पञ्चक्खामि" [पाक्षिकसू० ] ति । एते च भङ्गा अहिंसाव्रतमाश्रित्योपदर्शिताः प्रतान्तरेष्वपि द्रष्टव्याः ॥ १८॥ एवं सामान्येन हिंसादिगोचरा विरतिमुपदर्य प्रत्येकं हिंसादिषु तामुपदिदर्शयिषुहिंसायां तावदाह
पगु-कुष्ठि-कुणित्वादि दृष्ट्वा हिंसाफलं सुधीः ।
निरागस्त्रसजन्तूनां हिंसां सङ्कल्पतस्त्यजेत् ॥१९॥ १ सप्त संयोगा: शां. ॥ २ वा शां. ॥ ३ भवन्ति मु.॥४ सप्तचत्वारिंशं भङ्गशतं प्रत्याख्याने यस्योपलब्धम् । स खलु प्रत्याख्याने कुशलः शेषा अकुशलाः ।।
Jain Education Intel
For Private & Personal Use Only
W
ww.jainelibrary.org