SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ।।१९२।। Jain Education Inte दियो विप्रतिपद्यते स द्विविधां कृत-कारितभेदां त्रिविधेन मनसा वचसा कायेन चेति । एवं च भावना - स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति । अस्य चानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात् तैर्हिंसादिकरणे च तस्यानुमतिप्राप्तेः, अन्यथा परिग्रहाऽपरिग्रहयोरविशेषेण प्रव्रजिता ऽप्रव्रजितयोरभेदापत्तेः । ननु भगवत्यादावगमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तत् कस्मान्नोच्यते ? उच्यते - तस्य विशेषविषयत्वात् । तथाहि यः किल प्रविवजिपुरेव प्रतिमा: प्रतिपद्यते पुत्रादिसन्ततिपालनाय यो वा विशेषं स्वयंभूरमणादिगतमत्स्यादिमांसं स्थूलहिंसादिकं वा क्वचिदवस्था विशेषे प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति । इत्यल्पविषयत्वान्नोच्यते । बाहुल्येन तु द्विविधं त्रिविधेनेति । द्विविधविविध आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन ।। ७ द्विविधं द्विविधेनेति द्वितीयो भङ्गः । द्विविधमिति स्थूलहिंसा न करोति न कारयति । द्विविधेनेति मनसा वचसा यद्वा मनसा कायेन यद्वा वाचा कायेनेति । तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसा अभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना असंज्ञिवत् करोति । यदा तु १ द्विधा कृतकारितभेदात् खं. ॥ २ तुलना - धर्मसं० वृ० पृ० ५५ ॥ ३ वेति शां. ॥ ४ तुलना - तस्वार्थसि० ७ । १४ । पृ० ८५ ।। ५ द्विविधद्विविधादे० खं. ॥। ६ द्विविधद्विविधेनेति शां. ॥ ७ वचसा खं. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक १८ ॥१९२॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy