SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ एवं तावत् सागरोपमकोटीकोट्यां शेषायां किञ्चिदूनायां मिथ्यात्वमोहनीयस्थितौ जन्तुः सम्यक्त्वं प्रतिपद्यते । सागरोपमकोटीकोट्यामप्यवशिष्टायां पल्योपमपृथक्त्वं यदा व्यतीतं भवति तदा देशविरति प्रतिपद्यते । यदाह " सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावओ होज्जा।" [वृ० भा० १०६, वि० भा० १२१९] इति ॥१७|| 'सम्यक्त्वमूलानि पञ्चाणुव्रतानि ' इत्युक्तं तत्र सम्यक्त्वमभिहितम्, इदानीमणुव्रतान्याह विरतिं स्थूलहिंसादेर्द्विविधत्रिविधादिना । अहिंसादोनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥१८॥ स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या हिंसा सा स्थूलहिंसा, स्थूलानां वा त्रसानां जीवानां हिंसा स्थूलहिसा। स्थूलग्रहणमुपलक्षणम् । तेन निरपराधसङ्कल्पपूर्वकहिंसानामपि ग्रहणम् । आदिग्रहणात स्थलानृत-स्तेया-ऽब्रह्मचर्यपरिग्रहाणां संग्रहः । एभ्यः स्थूल हिंसादिभ्यो या विरतिनिवृत्तिस्तामहिंसादीनि अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-परिग्रहान् पश्चाणुव्रतानीति जिनास्तीर्थकरा जगदुः प्रतिपादितवन्तः । किमविशेषेण विरतिः ? नेत्याह-द्विविधत्रिविधादिना भङ्गजालेन । द्विविधः कृत-कारितरूपस्त्रिविधो मनोवाकायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः । इह यो हिंसा १ सम्यक्त्वे लब्धे पल्यपृथक्त्वेन श्रावको भवेत् ॥ २ होज्ज त्ति मु.। होज्जेति शां. खं.॥ ३ यो.२१॥ ॥१९॥ Jain Education Ini! For Private & Personal Use Only | www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy