SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ।।१८९ ।। Jain Education Inter 'पुव्वपुरिसा जोड़ अमग्गचरा, घड तेसि फलजोगो । अम्हे य धी- संघयणविरहओ न तह तेसि फलं ॥ [ ] इति । 3 विचिकित्सापि भगद्ववचनानाश्वासरूपत्वात् सम्यक्त्वस्य दोषः । न च शङ्कातो नेयं भिद्यते । शङ्का हि सकला-सकलपदार्थभाक्त्वेन द्रव्य-गुणविषया, इयं तु क्रियाविषयैव । यद्वा विचिकित्सा निन्दा, सा च सदाचारनिविषया यथा अस्नानेन प्रस्वेदजलक्लिन्नमलत्वाद् दुर्गन्धिवपुप एत इति को दोषः स्याद्यदि प्रासुकवारिणाऽङ्गक्षालनं कुर्वीरन्निति । इयमपि तच्चतो भगवद्धर्म्मानाश्वासरूपत्वात् सम्यक्त्वदोषः ३ । मिथ्या जिनागमविपरीता दृष्टिर्दर्शनं येषां ते मिथ्यादृष्टयः, तेषां प्रशंसनं प्रशंसा, तच्च सर्वविषयं देशविषयं च। सर्वविषयं सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्यसारा स्तुतिः सम्यक्त्वस्य दूषणम् । यदाचक्ष्महि स्तुतौ 66 66 मुद्रामतिशेरते ते । सुनिश्चितं मत्सरिणो जनस्य, न नाथ माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः ||" [ अयोगव्य० २७ ] देशविषयं तु 'इदमेव बुद्धवचनं साङ्ख्य- कणादादिवचनं वा तत्त्वम् ' इति । इदं तु व्यक्तमेव सम्यक्त्वदूषणम् ४ । १ पुर्वपुरुषा यथोदितमार्गचरा घटते तेषां फलयोगः । अस्मासु च घृतिसंहननविरहतो न तथा तेषां फलम् ॥ २ अम्हेसु धीसंशां । अम्हेसुं धीसं - खं. ॥ ३ तुलना – तत्वार्थसि ७ । १८ । पृ० ९९ ॥ ४८ For Private & Personal Use Only 10 ॥ १८९ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy