________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः १७ ॥१८८॥
॥१८८॥
यथा वासूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः, सूत्रं हि नः प्रमाण जिनाभिहितम् ॥" [
कासा अन्यान्यदर्शनग्रहः । सापि सर्व विषया देशविषया च । सर्वविषया सर्वपाखण्डिधर्माकासारूपा । देशकाङ्क्षा त्वेकादिदर्शनविषया, यथा सुगतेन भिक्षणामक्लेशको धर्म उपदिष्टः स्नाना-ऽन्न-पाना-ऽऽच्छादन-शयनीयादिषु सुखानुभवद्वारेण । यदाह
“ मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराणे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥" [ ] इति ।
एतदपि घटमानकमेव, न दुरापेतम् । तथा परिबाट भौत-ब्राह्मणादयो विषयानुपभुआना एव परलोकेऽपि सुखेन युज्यन्त इति साधीयानेषोऽपि धर्म इति । एवं च कासापि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयति ।
विचिकित्सा चित्तविप्लवः, सा च सत्यपि युक्त्यागमोपपन्ने जिनधर्मे 'अस्य महतस्तपःक्लेशस्य सिकताकणकवलवनिःस्वादस्यायत्यां फलसम्पद् भवित्री, अथ क्लेशमात्रमेवेदं निर्जराफलविकलम् ! इति । उभयथा हि क्रिया दृश्यन्ते सफला अफलाश्च कृषीवलादीनामत इयमपि तथा सम्भाव्यते । यदाह
१ तुलना-तस्वार्थसि०७। १८ । पृ० ९९ ॥ २ नामिव इयमपि-मु.॥
Jain Education Inter
For Private & Personal Use Only
wिw.jainelibrary.org