SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ।। १८५ ।। Jain Education Inter पूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निमित्तं त्रैकालिकं लाभा लाभादिप्रतिपादकं शास्त्रम्, तद्वेच्यधीते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । विद्याः प्रज्ञप्त्यादयः शासनदेवताः, ताः साहायके यस्य स विद्यावान् । अञ्जन-पादलेप-तिलक गुटिका-सकलभूताकर्षण-निकर्षण- वैक्रियत्वप्रभृतयः सिद्धयः, ताभिः सिद्धयति स्म सिद्धः । कवते गद्य-पद्यादिभिः प्रबन्धैर्वर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देश-कालाद्यौचित्येन साहायककरणात् प्रभावकाः, तेषां कर्म प्रभावना द्वितीयं भूषणम् । भक्तिः प्रवचने विनय- वैयावृत्त्यरूपा प्रतिपत्तिः । सम्यग्दर्शन - ज्ञान- चारित्रादिगुणाधिकेष्वभ्युत्थानमभियानं शिरस्यअलिकरणं स्वयमासनढौकनमासनाभिग्रहो वन्दना पर्युपासना अनुगमनं चेत्यष्टविधकर्मविनयनादष्टविध उपचार विनयः । ortants भावः कर्म वा वैयावृत्यम् । तच्चाचार्योपाध्याय - तपस्वि-शिक्षक-ग्लान-कुल- गण- सङ्घ समनोज्ञेषु दशस्वनपान-वस्त्र-पात्र-प्रतिश्रय-पीठ-फलक संस्तारादिभिर्धर्म्मसाधनैरुपग्रहः शुश्रूषा भैषजक्रिया कान्तार- विषम-दुर्गो-पसर्गेष्वभ्युपपत्तिश्च । जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरस्यर्थे विषयीक्रियते । यथाऽनार्यदेशवर्त्ती आर्द्रककुमारः श्रेणिकपुत्रेण अभयकुमारेण कौशलात् प्रतिबोधित इति । - तीर्थं नद्यादेवि संसारस्य तरणे सुखावतारो मार्गः । तच्च द्वेधा द्रव्यतीर्थ भावतीथं च । द्रव्यतीर्थं तीर्थ १ निष्कर्षण' मु. ॥ २ तुलना - तस्वार्थभा० ९ । २३ ।। ३ तुलना - तस्वार्थ भा० ९ । २४ ॥ ४ तुलना - धर्मसं० वृ० पृ० ४५ ॥ ४७ For Private & Personal Use Only 10 1182911 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy