________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ १८४॥
Jain Education Inter
स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने ।
तीर्थसेवा च पञ्चाऽस्य भूषणानि प्रचक्षते || १६ ||
अस्य सम्यक्त्वस्य पञ्च भूषणानि । भूष्यते अलक्रियते यैस्तानि भूषणानि । जिनशासने जिनशासनविषये, एतच्च सर्वत्र सम्बध्यते । स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकर्द्धिदर्शनेऽपि जिनशासनं प्रति निष्प्रकम्पता । प्रभवति जैनेन्द्र शासनम्, तस्य प्रभवतः प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन । यदाह
" पावयणी धम्मकही वाई नेमित्तिओ तवस्सी अ ।
विज्जासिद्धो अ कई अद्वेव पभावगा भणिआ || " [ व्य० भा० ]
तत्र प्रवचनं द्वादशाङ्गं गणिपिटकम्, तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी, शिखादित्वादिन् । वादि-प्रतिवादि-सभ्य-सभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरास
१ तुलना धमसः वृ० पृ० ४५ ॥
२ प्रवचन धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्या सिद्धश्च कविः अष्टैव प्रभावका भणिताः ॥ ३ " शिखादिभ्य इन् " सि० ७ । २ । ४ ॥
For Private & Personal Use Only
द्वितीय: प्रकाशः
श्लोक : १६
॥૮॥
5
10
www.jainelibrary.org