SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ॥१८३।। अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते-सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतचाभिनिवेशाद् मिथ्याभिनिवेशोपशमः शमः । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्वं विहायात्मना तवं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनवानिति । संवेगो भयम् , जिनप्रवचनानुसारिणो हि नरकेषु शारीरं मानसं च शीतोष्णादिजनितं च संक्लिष्टासुरोदीरितं च परस्परोदीरितं च, तिर्यक्षु भारारोपणाधनेकविधं,मनुजेषु दारिद्य-दौर्भाग्यादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यग्दर्शनमिति । निर्वेदो विषयेष्वनभिषङ्गः, यथा 'इहलोक एवं प्राणिनां दुरन्तकामभोगाभिषङ्गोऽनेकोपद्रवफलः, परलोकेऽप्यतिकटुकनरक-तिर्यग्-मनुष्यजन्मफलप्रदः, अतो न किञ्चिदनेन, उज्झितव्य एवायम् , इत्येवंविधनिर्वेदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति । अनुकम्पा कृपा, यथा 'सर्व एव सचाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, ततो नैषामल्पापि पीडा मया कार्या' इत्यनयापि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । 'सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीव-परलोकादयो भावाः' इति परिणाम आस्तिक्यम् । अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ॥१५॥ सम्यक्त्वलिङ्गान्युक्त्वा भूषणान्याह १ तत्त्वार्थसूत्रटीकाकृतां सिद्धसेनगणिनामभिप्राय दर्शयति 'अन्ये तु' इत्यादिना । दृश्यतां तत्वार्थसि०१।२॥ २ हि नास्ति खं. ॥ ३ 'नभिष्वङ्ग:-मु.॥ ४ गाभिष्वङ्गः-मु.॥ ॥१८३॥ Jain Education Intern For Private & Personal Use Only A ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy