________________
'लिङ्गिनि सम्यक्त्वे सति लिङ्गैरवश्यं भाव्यम्' इति नायं नियमः । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वहिः, भस्मच्छन्नस्य वा वहुनेन धूमलेशोऽपीति । अयं तु नियमः-सुपरीक्षिते लिङ्गे सति लिङ्गी भवत्येव । यदाह“लिङ्ग लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥" [प्रमाणसमु० ]
सज्वलनकषायोदयाद्वा कृष्णादीनां क्रोधकण्डू-विषयतृष्णे । सज्वलना अपि केचन कषायास्तीव्रतया अनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमवदातम् ।
संवेगो मोक्षाभिलाषः । सम्यग्दृष्टिहि नरेन्द्र-सुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाद् दुःखतया मन्यमानो मोक्षसुरखमेव सुखत्वेन मन्यते अभिलपति च । यदाह
" नर-विबहेसरसोक्खं दक्खं चित्र भावओ अ मन्नतो।
संवेगओ न मोक्ख मोनूणं किंचि पत्थेइ ।।" [ श्रा० प्र० ५६, धर्मसं० ८०९] निवेदो भववैराग्यम् । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथा तथा कदर्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निविष्णो भवति । यदाह
१ बौद्धाचार्यदिङ्नागविरचितस्य प्रमाणसमुच्चयस्य द्वितीयात् स्वार्थानुमानपरिच्छेदात् कारिकेयं समुदधृता ।। २ दृश्यतां पृ० १७९ दि० १॥
॥१८॥
Jain Education Intem
For Private & Personal Use Only
B
w.jainelibrary.org