SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाशः श्लोक: १५ ॥१८॥ ॥१८॥ ___ अन्ये तु क्रोधकण्डू-विषयतृष्णोपशमः शम इत्याहुः । अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्ड्या विषयतृष्णया च तरलीक्रियेत ? ननु क्रोध-कण्डूविषयतृष्णोपशमश्चेच्छमस्तहि कृष्ण-श्रेणिकादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयतृष्णातरलितमनसां च कथं शमः ? तदभावे च सम्यक्त्वं न गम्येत । नैवम् । गच्छत्युपशमत: उपशमेन हेतुना सर्वकालमपि यावत् सम्यक्त्वपरिणाम इति ॥५५|| तथा नरविबुधेश्वरसौख्यं चक्रघर्तीन्द्रसौख्यमित्यर्थः अस्वाभाविकत्वात् कर्मजनितत्वात् सावसानत्वाच्च दुःखमेव भावतः परमार्थतो मन्यमान: संवेगत: संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपमकर्मजमपर्यवसानं मुक्त्वा किश्चित् प्रार्थयतेऽभिलषतीति ॥५६॥ नारक-तियङ्-नरा-ऽमरभवेषु सर्वेष्वेव निर्वेदतो निदेन कारणेन वसति दुःखम् । किंविशिष्टः सन ! अकृतपरलोकमार्ग', अकृतसदनुष्ठान इत्यर्थः । अयं हि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यते । ममत्वविषवेगरहितोऽपि, तथाहि-अयं प्रकृत्या निर्ममत्व एव भवति विदिततत्त्वत्वादिति 1५७।। तथा दृष्टवा प्राणिनियहं जीवसंघात, क्व' भीमे भयानके भवसागरे संसारसमुद्रे, दुःखात शारीरमानसःखैरभिभूतमित्यर्थः, अविशेषतः सामान्येनात्मीयेतर विचाराभावेनेत्यर्थः। अनुकम्पां दयां विधापि द्रव्यतो भावतश्च, द्रव्यत: प्रासुकपिण्डादिदानेन, भावतो मार्गयोजनया, सामर्थ्यत: सर्वशक्त्यनुरूपं करोतीति ॥५८॥ मन्यते प्रतिपद्यते तदेव सत्यं नि:शवं शङ्कारहितं यज्जिन: प्रज्ञप्तं यत् तीर्थकरे: प्रतिपादित, शुभपरिणाम: सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः। सर्व समस्तं मन्यते, न तु किश्चिद् मन्यते किश्चिद् नेति, भगवत्यविश्वासायोगात् । पुनरपि स एव विशिष्यते। किंविशिष्टः, सन् ? कांक्षादिविश्रोतसिकारहितः, कांक्षा अन्योन्यदर्शनग्राह इत्युच्यते, आदिशब्दादू विचिकित्सापरिग्रहः, विस्रोतसिका तु संयमशस्य मङ्गीकृत्याध्यवसायसलिलस्य विश्रोतोगमन मिति ॥१९॥ १ तरली क्रियते शां. ॥२ नावगम्यते इति नैवम्-खं । Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy