________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः १४ ॥१७८॥
॥१७८||
यो मिथ्यादृष्टिभिराम्नातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवभ्रमणकारणमधर्म एवेत्यर्थः । कुत इत्याह हिंसाद्यैः कलुषीकृत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदूपिताः ॥१३॥ इदानीमदेवागुर्वधर्माणां साक्षेपं प्रतिक्षेपमाह
सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि ।
कृपाहीनोऽपि धर्मः स्यात् कष्टं नष्टं हहा जगत् ॥१४॥ रागग्रहणमुपलक्षणं द्वेष-मोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कृपाहीनत्वमुपलक्षणं मूलोत्तरगुणहीनत्वस्य । चेच्छब्दः प्रत्येकमभिसम्बध्यते । आक्षे प्रकटयति-कष्टमिति खेदे, नष्टं जगत् , देव-गुरु धर्मशून्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः । यदाह
"गगी देवो दोसी देवो मामि सुन्नपि देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू ते वि पुज्जा, हा हा कटुं नट्ठो लोओ अट्टमट्ट कुणंतो ॥" [ ] ॥१४॥
तदेवमदेवागुर्वधर्मपरिहारेण देव-गुरु-धर्मप्रतिपत्तिलक्षणं सम्यक्त्वं सुव्यवस्थितम् । तच्च शुभात्मपरिणामरूपमम्मदादीनामप्रत्यक्षं केवलं लिङ्गैलक्ष्यते, तान्येवाह
१ 'कारणं धर्म शां.॥ २ रागी देवो द्वषो देवः सखे शून्यमपि देवः, मद्ये धर्मो मांसे धर्मो जीवहिंसायां धर्मः । रक्ता मत्ताः कान्तासता ये गुरवस्तेऽपि पूज्याः, हा हा कष्ट नष्टो लोक आर्तमातं कुर्वन् ।
Jain Education in
Filwww.jainelibrary.org