SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ।।१७७॥ Jain Education Intert " गृहे दघि द्रष्टुमाहितो गृहमेधिना । अपूपानपि तद्देशान् प्रकाशयति दीपकः || १ || [ न्यायमं० पृ० १९५ ] तदेवं वचनस्यापौरुषेयता न सम्भवति । अथाप्यप्रामाणिक हेवा कबलादाकाशादिवच्छन्दस्या पौरुषेयता यदि भवेत् तथापि प्रामाण्यं न सम्भवति । हि यस्मादाप्तवक्तृत्वेन वाचां प्रामाण्यं नान्यथा । यतः — 64 'शब्दे गुणोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः क्वचित्तावदोषवद्वक्तुकत्वतः ॥ १ ॥ तद्दोषैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन गुणा न स्युर्निराश्रयाः ॥ २ ॥ " [ किश्व - ] 46 'गुणाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्त्तरभावाच्च गुणाशङ्केव नास्ति नः ॥ ३ ॥ " [ ]१२ ॥ एवं ः तावदपौरुषेयवचनाभिहितस्यासम्भवादिना अभावमभिधाया सर्वज्ञपुरुषवक्तुकस्य धर्मस्याप्रामाणिकत्वमाहमिध्यादृष्टिभिराम्नातो हिंसाद्यैः कलुषीकृतः । धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥ मिथ्यादृष्टिभिर्हरि-हर-हिरण्यगर्भ कपिल-बुद्धादिभिराम्नात आत्मोपज्ञतया प्रतिपादितः । यत्तदोर्नित्याभिसम्बन्धाद् २ हिर्यस्मा० खं. ॥ १ मानीतो - इति न्यायमञ्जर्या पाठः ॥ ४५ For Private & Personal Use Only 5 10 ॥ १७७॥ ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy