________________
eatuज्ञ
वृत्ति
विभूषितं
योगशास्त्रम् 1186811
Jain Education Inter
किश्च -
इत्याह
दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते ।
वेदे कर्तुरभावाच्च दोषाशङ्कैव नास्ति नः ||३|| ” [
1
अपौरुषेयं वचनमसम्भवि भवेद्यदि ।
न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ||१२||
पुरुषेण कृतं पौरुषेयम्, तत्प्रतिषेधादपौरुषेयम् । उच्यते स्थान-करणाभिघातपूर्वकं पुरुषेण प्रतिपाद्यते इति वचनम् । तदिदं परस्पर विरुद्धम् - अपौरुषेयं वचनं चेति । तदेवाह – असम्भवि । न ह्यस्ति सम्भवो वचनस्य श्रसरेणोरिवाकाशे । न चामूर्त्तस्य सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छन्द श्रवणमेव प्रमाणमिति चेत्, न, तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्ग्यत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थं स्थानकरणाभिघाते शब्दान्तराणामपि तद्देशानामभिव्यक्तिप्रसङ्गः । न च प्रतिनियतव्यञ्जकव्यङ्ग्यता शब्दानां भवति, व्यङ्गान्तरेषु तददर्शनात् । तथा च
१ "व्यंग्यत्वेन शां. ॥ २ तद्देश्याना' मु. ॥
For Private & Personal Use Only
द्वितीय: प्रकाशः श्लोक १२
॥१७६॥
5
10
www.jainelibrary.org