SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ दुर्गतौ नरक-तिर्यगलक्षणायां प्रपतन्तो ये प्राणिनस्तेषां धारणाद्धेतोर्द्धर्म उच्यते । धर्मशब्दार्थोऽयम् । इदमेव च लक्षणं धर्मस्य । धत्ते वा नर-सुर-मोक्षस्थानेषु जन्तूनिति निरुक्ताद् धर्मः । यदाह "दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥१॥"[ ] स तु वक्ष्यमाणैः संयमादिभिर्भदैर्दशधा । सर्वज्ञोक्तत्वाद्विमुक्तये भवति । देवतान्तरप्रणीतस्त्वसर्वज्ञवक्तृकत्वान प्रमाणम् ॥११॥ ननु सर्वज्ञोक्तत्वाभावेऽप्यपौरुषेयवचनोपज्ञस्य धर्मस्य प्रामाणिकत्वमस्तु । यदाह२६ : "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म स्थूलं व्यवहितं विप्रकृष्टमेवंजातीयकमर्थमवगमयितुं शक्नोति, नान्यत् किञ्चनेन्द्रियम् " [ शाबरमा० १।१।२] इति । चोदना च अपौरुषेयत्वेन पुरुषगतानां दोषाणामप्रवेशात् प्रमाणमेव । यदाह "शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः क्वचित् तावद् गुणवद्वक्तृकत्वतः ॥१॥ [ मी० श्लो० वा० १ । १।२।६२] तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यदा वक्तुरभावेन न स्युर्दोपा निराश्रयाः ॥२॥ [ मी० श्लो० वा० १।१।२।६३] १-२ नोदना शां. खं॥ ॥१७॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy