________________
स्वोपक्षवृत्तिविभूषितं योगशाखम्
द्वितीयः प्रकाश श्लोकः
॥१७॥
॥१७॥
सर्व मधु-मांसा-ऽनन्तकायादि भुअत इत्येवंशीलाः सर्वभोजिनः। सह परिग्रहेण पुत्र-कलत्रादिना वर्तन्ते सपरिग्रहाः । अत एवाब्रह्मचारिणः, अब्रह्मणो महादोषतां कथयितुमब्रह्मचारिण इति पृथगुपन्यासः। अगुरुत्वे असाधारणं कारणमाह-मिथ्योपदेशा इति। मिथ्या वितथ आप्तोपज्ञोपदेशरहितत्वादुपदेशो धर्मदेशनं येषां ते तथा। न तु, नैव एवंविधा गुरव इति ॥९॥ ननु धर्मोपदेशदायित्वं चेदस्ति तदास्तु गुरुत्वम् , किं निष्परिग्रहित्वादिगुणगवेषणेन ? इत्याह
परिग्रहारम्भमनास्तारयेयुः कथं परान् ? । .
स्वयं दरिद्रो न परमीश्वरीकर्त्तमीश्वरः ॥१०॥ परिग्रहः च्यादिः, आरम्भो जन्तुहिंसानिबन्धनं सर्वाभिलाषित्व-सर्वभोजित्वादिः, ताभ्यां मना भवाब्धौ ब्रुडिताः कथं परानुपदेश्यान् भवाम्भोधेस्तारयेयुस्तारणसमर्थाः स्युः ? साधकं दृष्टान्तमाह-स्वयनित्यादि स्पष्टम् ॥१०॥ धर्मलक्षणमाह
दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते ।
संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥११॥ १ मधमधुमांसा मु.॥२ अत्राङ्को नास्ति शां. । पुनरपि ९ अङ्कः खं.। अतोऽग्रे शां. ख. प्रत्योरेकोऽङ्कः सर्वत्र न्यून इति ध्येयम् ॥
Jain Education Inte
!
For Private & Personal Use Only
www.jainelibrary.org