SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ॥१७३॥ भैक्षमाप्रोपजीविन इति । भिक्षाणां समूहो भैक्षमन्न-पान-धर्मोपकरणरूपम् , तन्मात्रमेवोपजीवन्ति लोकाद् न पुनर्धनधान्य-हिरण्य ग्राम-नगरादि। ___मूलगुणोत्तरगुणधारणकारणभूतगुणवचमाह-सामायिकस्था इति । समो रागद्वेषविकल आत्मा, समस्य आयो विशिष्टज्ञानादिगुणलाभः समायः, स एव सामायिकम् , विनयादित्वादिकण्, तत्र तिष्ठन्तीति सामायिकस्थाः । सामायिकस्थो हि मूलगुणोत्तरगुणभेदभिन्नं चास्त्रिं पालयितुं क्षमः। एतद् यतिमात्रसाधारणं लक्षणम् । गुरोस्तु असाधारणं लक्षणम्-धर्मोपदेशका इति । धर्म संवरनिर्जरारूपं यति-श्रावकसम्बन्धिभेदभिन्नं वा उपदिशन्तीति धर्मोपदेशकाः । यदुक्तमस्माभिरभिधानचिन्तामणौ [११७७] " गुरुर्धर्मोपदेशकः" इति। गृणन्ति सद्भूतं शास्त्रार्थमिति गुरवः ।।८॥ अगुरुलक्षणमाह सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥९॥ सर्वमुपदेश्यसम्बन्धि स्त्री-धन-धान्य-हिरण्य-क्षेत्र-वास्तु-चतुष्पदाधभिलषन्तीत्येवंशीलाः सर्वाभिलाषिणः। तथा भृतं खं.॥ २॥ वाच इकण । विनयादिभ्यः ।" सि. ७।२। १६८-१६९ ॥ ॥१७३॥ Jain Education Intel For Private & Personal Use Only |www.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy