SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योग शास्त्रम ॥१७२।। द्वितीयः प्रकाश: श्लोकः८ ॥१७२।। आर्या विनायक-स्कन्द-समीरणपुरस्सराः। निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥१३॥ या पशुYथमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिर्ध्नती जन्तून् सा वन्द्याऽस्तु कथं नु गौः ॥१४॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् ? । विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥१५॥ स्थानं तीर्थर्षि-देवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः ॥१६॥ मुसलोदुखले चुल्ली देहली पिप्पलो जलम् । निम्बोऽर्कश्चापिः यैः प्रोक्ता देवास्तैः केऽत्र वर्जिताः ।।१७।। वीतरागस्तोत्रेऽप्युक्तमस्माभिः" कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशानिह नुवते दहा देवास्तिकाः परे॥" [६।८] ॥७॥ गुरुलक्षणमाह महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥८॥ महाव्रतानि अहिंसादीनि, तानि धरन्तीति महाव्रतधराः । महाव्रतधारित्व एवार्य हेतुः धीरा इति, धैर्य ह्यापत्स्वप्यवैक्लव्यम, तद्योगाद्धि अखण्डितमहाव्रतधरा भवन्ति । मूलगुणधारित्वमुक्त्वा उत्तरगुणधारित्वमाह १ नास्या शां. ख ॥ २ 'लूखले खं.॥ Jain Education Intel For Private & Personal Use Only Howw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy